SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ No. III SANGHA BHANDARA श्री हेमचंद्र इति सूरिरभूदमुष्य शिष्यः शिरोमणिर शेषमुनीश्वराणां । यस्याधुनापि चरितानि शरच्छशांकच्छायोज्वलानि विलसंति दिशां मुखेषु ॥ १३ ॥ एकैकं जिनशासनोन्नतिकरं कार्यं किमप्यद्भुतं तत् संसाधितवानसाध्यमपि यः सद्बुद्धिपाथोनिधिः । यद् वक्तुं वचसास्तु दूरतरतः शक्यं न चेतस्यपि यातुं केनचिदेव देवगुरुणाप्यन्यस्य वार्तेव का ? ॥ १४ ॥ सकळनिजधरित्रीमध्यमध्यासितानां जिनपतिभवनानां तुंगशृंगावलीषु । अनघयदुपदेशात् सिद्धराजेन राज्ञा स्फुरदविरलभासः स्थापिताः स्वर्णकुंभाः ॥ १५॥ साधु-श्राद्धजनस्य दुर्जनजनात् संजायमाना पराभूतिर्भूपतिवल्लभादपि मदेनांधाद्.. शक्त्या येन निवारिता जिनगृहादानेपु. क्रुद्धारा जिनसद्मनां च जरतां जाता ...... ज्ञया ॥ १६ ॥ आरुह्य बुद्धिमघमक्षतयानपात्र मप्युद्यमप्रबलमारुतबद्धवेगं । यः संगमं सितपटस्य गुरोरवाप्य जैनागमार्णवतढं झटिति प्रयातः ॥ १७ ॥ येनोपदेशमाला चक्रे भवभावना च वृत्तियुता । अनुयोगद्वाराणां शतकस्य च विरचिता वृत्तिः ॥ १८ ॥ मूलावश्यक टिप्पनकं विशेषावश्यकीयवृत्त्यायं । ये प्रथितग्रंथस्य लक्षमेकं मनाग्तनं ।। १९ ॥ तस्मादभूद् विजयसिंह इति प्रसिद्ध: सूरिः सुधांशुकर गौरयाः समृद्धः । बाल्यात् प्रभृत्यपि विवेककलानिशांतं चेतः सदैव समजायत यस्य शांतं ॥ २० ॥ धर्मोपदेशमालाविवरणमासीच्चिरंतनं तनुकं यत् । तत् तेन सविस्तरमारचितं रसिकलोकमुदे ॥ २१॥ साहाय्यमत्र चक्रे गणिरभयकुमारसंज्ञितो विज्ञः । तस्यैव शोधनविधौ जाता मुनिपुंगवाः सर्व्वे ॥ २२ ॥ ग्रं० श्लोक १४४७१ ।। मंगलं महाश्रीः ॥ यस्याः क्षीरपयोनिधिर्निवसनं हारत्रजस्तारका स्ताढंके शशि- भास्करौ सुरधुनी श्रीपंड - पुंड्रस्थितिः । सा कीर्तिर्नरिनर्त्ति यावदमला वीरस्य विश्वत्रयीरंगे तावदमंददुंदुभितुलां धत्तामसौ पुस्तकः ॥ १ ॥ 40 313 ·
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy