SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्रूयते च प्रबजितया सङ्घसन्मानितया जनन्या दुर्लभदेव्या वलभ्यां संरक्ष्यमाणे पुस्तकादिधर्मोपकरणे मल्लस्तदन्तर्गतं व्यलोकयद् देवताधिष्टितं पूर्वगतं गुरुनिषिद्धदर्शनमपि द्वादशारनयचक्रपुस्तकम् । वाचितायामेव यदीयायां प्रथमायामार्यायामविधिरिति यद् हृतं देवतया, प्रतिभादिप्रसादितायाश्च तस्याः प्रसादेन नवीनं च व्यरचयत् तत् तार्किकशिरोमणिर्मल्लवादी भृगुकच्छे राजसभायां वीरनि. सं. ८८४ ( वि. सं. ४१४ ) वर्षे बुद्धानन्दविजेता जिनानन्दसूरिभागिनेयोऽजितयशो-यक्षयोबन्धुः। ___ सुप्रसिद्धेन याकिनीमहत्तराधर्मपुत्रेण भवविरहाङ्कहरिभद्रसूरिणा, सज्जनोपाध्यायशिष्येण महेश्वरसूरिणा, गूर्जरेश्वरचौलुक्यदुर्लभराज-भीमदेव-कर्णदेव-सिद्धराजजयसिंहपरमाहतकुमारपालभूपालादीनां सौराज्ये शतशो ग्रन्थान् विरचयद्भिर्जिनेश्वरसूरि-"जिनचन्द्रसूरि-सूरींचामियदेवसूरि-नेमिचन्द्र रि-गुणचन्द्रगणि-वर्धमानसूरि-हेमचन्द्राचार्य-प्रभृतिभिर्विद्वनैश्च प्रसङ्गतो विहितो जिनप्रवचनादिपुस्तकलेखन-पूजन-दान-- व्याख्यान-श्रवणादिश्रावककर्तव्यसदुपदेशोऽपि पठ्यते । गूजरेश्वरसिद्धराजजयसिंहकुमारपालभूपाल-गूर्जरेश्वरमहामात्यवस्तुपाल-तेजःपाल-सुप्रसिद्भहेमचन्द्राचार्यादिचरित-प्रबन्धादिपु निर्दिष्टास्तत्कारिताः प्राच्यपुस्तकभाण्डागारा यद्यपि साम्प्रतं नोपलक्ष्यन्ते; तथापि तैयूँजरेश्वरैस्तन्महामात्यादिभिः पृथ्वीपाल-वस्तुपाल-तेज:पालादिभिश्च समभ्यर्थ्य कारिती लेखितास्तदधिकारसौराज्ये वि. सं. ११५४ वर्षतस्तदनन्तरमपि च वि. सं. १४९७ वर्ष यावत् चिरस्थायिन्या मण्या नागरीलिप्यां मनोहरैरक्षरैर्मलबारीयं( पृ. २०१)सुचारुताडपत्रीयपुस्तिकासु विलिखिताः प्रभूता ग्रन्था अत्र समुपलभ्यन्ते । वस्त्रे लिखिता अपि ग्रन्था अत्र वीक्ष्यन्ते [पृ. ३४४ ] मन्त्रीश्वरवस्तुपालादिसन्मानितदेवेन्द्रसूरि-विजयचन्द्रसूरिप्रभृतीन सदुपदेशेन विक्रमीयचतुर्दशशताब्द्याः प्रारम्भे मधुमत्यां(महुवा ) वाग्देवताभाण्डागारकरणाय भिन्नभिन्नस्थानीयैः सुश्रावकैः कृतः प्रशस्तः प्रयत्नोऽवसीयते [पृ. ५२] साम्प्रतं वर्तमानेषु पत्तनीयज्ञानकोशेषु सोमतिलकसूरिसंज्ञितभाण्डागारादिविधाने [पृ. २०२, २०९, २२७, २२८ ] सदुपदेशादिविशिष्टः प्रयत्नो वैक्रमपञ्चदशशताब्द्यां विद्यमानानां तपागच्छाधिपदेवसुन्दरसूरि-सोमसुन्दरसूरिप्रमुग्वानां विज्ञायते । येषां पदप्रतिष्ठादिप्रबन्धोऽत्र पत्तने वि. सं. १४२० वर्षे, १४५८ वर्षे च समहं समजनि । अत्र विशेषतो धन्यवादमर्हन्ति "षष्टिपरिमिताः श्रमण्यः श्राविकाश्च जैनमहिला देवसुन्दरसूरिगुरुबन्धुजयानन्दसूरिभ्रातृजारूपल-क्षत्रियझालाकुलविजपालराज्ञीनीतादेवीप्रभृतयः । अणहिलपाटकपत्तन-सिद्धपुर-भृगुकच्छ-स्तम्भतीर्थ-घोघा-देवपत्तन-देवगिरिप्रमुखविविधस्थानवास्तव्याभिर्विविधवंशोकेश-प्राग्वाट-श्रीमाल-पल्लीवाल-धर्कटादि -ज्ञातिविभूषणाभिरितो. वर्षाणां पञ्चशत्याः प्राक् सञ्जाताभिः सत्कुलीनाभिर्याभिर्निजभर्तृ-.
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy