SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ मातृ-पितृ-खसृ-श्वश्रूप्रभृतीनां पुण्यकृते ज्ञानाराधनाथ ख-परश्रेयोऽथ च प्रभूताः सिद्धान्तादिप्रतयो लेखितास्तथा च ताः पठन-पाठन-व्याख्यान-श्रवणादिकृते सद्गुरुभ्यो वितीर्णा ज्ञानकोशेषु च संस्थापिता एवं च याभिः कृतं वजन्मनो लक्ष्म्याश्च साफल्यम् । उपसंहारः प्रस्तुतायाः सूच्याः प्रकाशेन न केवलं प्रसिद्धाप्रसिद्धोपयुक्तदुर्लभप्राचीनअन्धादिपरिज्ञानम् , प्रामाणिक समुपयुक्तमैतिह्यमपि प्रसिध्यति । यत इतः प्रतिप्रशस्ति प्रभूत इतिहासः प्रकाशतामागच्छेत् । अन्यान्यप्रशस्त्युल्लेख-प्रतिमालेख-शिलालेखादिभिरैतिहासिकैः साधनैः संमेलने सन्तोलने समन्वये चोपयुक्तो विशिष्टः प्रतिष्ठितः प्रामाणिक इतिहासः सङ्कलितो भवेत् । पृथक् पृथक् तथाविधा सङ्कलनाऽत्र दुःशका । ग्रन्थविस्तरभयतोऽपि नात्र प्रयतितम् । मन्त्रिवंशप्रशस्त्यादिविषये त्वस्माभिरन्यत्र (ओ. कॉ. रि. पृ. ११३२-४०) पृथक् प्रायति । तथा दिक्सूचनार्थ जिज्ञासुपाठकानामितिवृत्तसमुत्सुकानां समुपकृतये चास्याः परिशिष्टेऽप्रसिद्धग्रन्थाभिज्ञापकसङ्केतसङ्कलिता ग्रन्थानां वर्णानुपूर्व्या सूची क्रमानुसारिणी ग्रन्थरचना-लेखन-संवत्सरसूची तथा च स्थानविशेष-भूपाल-राज्याधिकारि-ग्रन्थकारादिज्ञापकभिन्नभिन्नाभिज्ञानसमन्विता इतिहासोपयोगिनाम्नां सूच्यपि वर्णक्रमेण विरच्यात्र पुरस्कृता । ख. साक्षरचीमनलालदलालस्य निवेदन( Report )संशोधनादावत्रत्याधिकारिभिः डॉ. विनयतोषभट्टाचार्यमहाशयैस्तथा विशेषनामसूच्यादौ 'मि. महादेव अनन्त जोशी' इत्यनेन च प्रासङ्गिक साहाय्यं व्यधायीत्येषां नामस्मरणमत्र समुचितम् । ___ एवं यावद् बुद्धि-बलोदयम्' 'यथाशक्यम्' कृतेऽस्मिन्नत्युपयोगिनि कर्तव्ये गुणैकपक्षपातिनः सज्जना हेयं परिहरन्तु, सुज्ञेयं परिजानन्तु । परिज्ञाय च समुचितं ग्राह्यं गृह्णन्तु । जीर्ण-शीर्णानामवशिष्टानां प्राचीनानामादर्शपुस्तकानामग्नि-जल-स्थल-जन्तुजातादेः परिरक्षणार्थ श्रेष्ठोपयुक्तप्राच्यपुस्तकालयविरचनाथ सम्प्रतिसम्प्राप्य फोटोस्टॅट मशिन' प्रभृतिसाधनादिनाऽऽदर्शप्रतिकृतिबाहुल्यविधानार्थमप्रसिद्धानामत्युपयोगिनां विविधविषयविभक्तानां ग्रन्यानां प्रकाशनार्थ प्रचारार्थं च प्रयतन्ताम् । सफलीकुर्वन्तु ग्रन्थरचना-लेखन-संग्रहसंरक्षण-सूचीसङ्कलन-सम्पादन-प्रकाशन-परिश्रमम् । विधाय चैवं सम्यक् प्रथयन्तु भारतीयं विविधं विज्ञानम् । साधयन्तु ख-परश्रेयः । वितरन्तु च सहस्रशो धन्यवादानस्य प्रयत्नस्य प्रेरक-प्रोत्साहकाय सुयशखिने महाराजाय श्रीमते सयाजीराव गायकवाड महोदयायेत्याशास्ते वि. सं. १९९२ अक्षयतृतीयायाम् । प्राच्यविद्यामन्दिरे ता. २४-४-३६ । वटपढ़े। गान्धीत्युपाह्वो भगवान्प्रेष्ठितनुजो . लालवन्द्रः।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy