SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ जिनागमादि-लेखन-संरक्षणादिप्रवृत्तिः । प्रथमस्तीर्थकृद् ऋषभोऽर्हन् प्रत्रज्याग्रहणात् प्राक् परमप्राचीने काले प्रजाहितार्थमुपदिष्टवान् 'लेखादिका द्वासप्ततिकलाः । लिपिविधानरूपा लेखकला च तेनैव जिनेन निजाङ्गजायै ब्राह्म्यै उपदिष्टेति ब्राह्मीलिपिन मैस्करणं ब्राह्मीप्रभृत्यष्टादशलिपीनां लेखादि - द्वासप्ततिकलानां च परिचय - समुल्लेखादि समुपलभ्यतेऽङ्गोपाङ्गादिसंज्ञया प्रसिद्धे जैनसि - द्धान्ते ँ। माता-पितरौ वालं महावीरं लेखाचार्यस्य पार्श्वे नीतवन्तावित्याद्यपि च सूचितम्।' 'अर्धमागधीभाषायामर्थतोऽर्हद्भापितानि सूत्रतो गणधरग्रथितानि श्रमण भगवन्महावीरगौतम - सुधर्मखामि - जम्बूप्रभृतीनां निर्देश - संवादपरायणानि जैनसिद्धान्तसूत्राणि महावीरजिननिर्वाणादनन्तरं चतुर्दशपूर्वरभद्रबाहु स्थूलभद्र दशपूर्वरार्यवज्रार्यरक्षितादि सुप्रशस्तमतिमद्भिर्मुनिपुङ्गवैश्चिरं गुरुपरम्परयाऽवधारितानि परिपाट्या परिपठ्यमानान्यासन् । विषमकालद्वादशवार्षिकदुष्काला दिदुविलसितादपचीयमानं श्रुतं परिहीयमानं मति - स्मृतिधृति - शक्त्यादि च परिभाव्य परोपकारपरायणैः समयज्ञैर्दीर्घदर्शिभिर्युगप्रधानैः सुप्रयत्नेन सङ्घटितानि समुद्धृतानि च तानि । श्रुतकेवलिनाऽऽर्यशय्यम्भवेन दशवैकालिकम्, चतुर्दशपूर्वधरेण भद्रबाहु खामिना दशा- कल्प - व्यवहारसूत्रादि, आर्यश्यामापरनामकारकेन प्रज्ञापना, आर्यरक्षितेनानुयोगपार्थक्यम्, देववाचकेन नन्दी सूत्रम्, हरिभद्रसूरिभृतिना महानिशीथसूत्रादि च जैनश्रुतात् समुद्धृतं श्रूयते । जैनागमसूत्राणां नियुक्तिनामधेयं व्याख्यानं भद्रबाहु खामिना, भाष्यं जिनभद्र - सङ्घदासगणिक्षमाश्रमणाभ्याम्, चूर्णिसंज्ञकं जिनदासगणिमहत्तरेण, वृत्ति - व्याख्या - विवरणादिखरूपं च सिद्धसेनाचार्य - हरिभद्रसूरि - गन्धहस्ति - कोट्याचार्य - शीलाङ्काचार्यशान्तिसूरि- श्रीमद्भयदेवसूरि-द्रोणाचार्य - नेमिचन्द्रसूरि - मलधारिहेमचन्द्रसूरि-चन्द्रसूरि-मलयगिरिप्रभृतिभिर्भूरिभिर्बहुश्रुतेः सूरिभिर्व्यरचि । सुविस्तृतं च तत् तत्तत्काले पुस्तकादिषु लिखितं सम्भाव्यते । श्रुतदेवतां वागीश्वरीं पुस्तकव्यग्रहस्तां वर्णयद्भिः, श्रुतज्ञानप्रकारे पत्रादि- पुस्तकादिलिखितं द्रव्यश्रुतं प्रतिपादयद्भिः, देवानां पुस्तकरत्नस्य वर्णनं विदधद्भिः,पुस्तकग्रहणे संयमासंयमौ प्रबोधयद्भिः, पुस्तकपञ्चकप्रकारं प्रपञ्चयद्भिजैनप्रवचननिर्युक्ति-भाष्य- चूर्णि विवरणकारैः प्रख्यापितमेव पुस्तकानां ततोऽपि प्राचीनत्वम् । " पुरा पाटलिपुत्र पुरे सम्मीलित सङ्घसङ्घटितो वाचनाविख्यातः, 'स्कन्दिलाचार्य-नागार्जुनवाचक - देवैधिगणिक्षमाश्रमणादिश्रमणसङ्घस्य प्रशस्यप्रयत्नेन मथुरापुरी - वलभीपुरादौ पुस्तकाधिरूढः परम्परालेखितः सम्प्राप्यते साम्प्रतमपि जैनसिद्धान्तः । अन्यच्च श्रयते विक्रमादित्य सन्मानितेन सिद्धसेन दिवाकरेण चित्रकूटनगरे पुरातनचैत्यगृहे पूर्वाचार्यैः स्थापितपरमरहस्य विद्यामयपुस्तको लेप्यमयः स्तम्भः प्रत्यौषधप्रयोगेण प्रोद्घाटित आसीत् । "
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy