SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ No. II KHETARWASI थिरमत्या द्वितीयायास्तनयाः पंच जज्ञिरे । आधौ धवल - वेलिगौ यशोधवलः कलाभृत् ॥ ६॥ रामदेवोपि निःशेषकलासंकेतमंदिरं । ब्रह्मदेवो यशोदेवः पुत्री वीरीति विश्रुता ॥ ७ ॥ महौजा धवलसूनुरासदेवो विवेकवान् । वेलिंगस्यापि सत्सूनुरासचंद्रः कलालयः ॥ ८ ॥ इतश्च । आसीचंद्रकुले शशांकविमले सूरिर्गुणानां निधि - त्रैलोक्याभयदेवसूरिगुरुः सिद्धांतविश्रामभूः । स्थानांगादिनवांगवृत्तिकरणप्राप्तप्रसिद्धिर्भृशं येन स्तंभनके जिनस्य विशदा सम्यक् प्रतिष्ठा कृता ॥ ९ ॥ तत्पट्टे हरिभद्रसूरिरुदभून्निःशेपशास्त्रार्थवित् तच्छिष्यो जितसिंहसूरिरुदभून्निःसंगिनामग्रणीः । तच्छिष्योजनि हेमसूरिगुरुर्गीतार्थचूडामणि स्तत्पादांबुज षट्पदो विजयते श्रीमन्महेंद्रप्रभुः ॥ १० ॥ करिकर्णास्थिरा लक्ष्मीः प्राणास्तु [क्षण ] नश्वराः : इत्थं व्याख्यां ततः श्रुत्वा श्रद्धासंविग्नमानसः ॥ ११ ॥ यानपात्रं भवांभोधौ मज्जतां प्राणिनामिह । पततां दुर्गतौ कूपे रज्जुकल्पं हि पुस्तकं ॥ १२ ॥ इत्येवं मनसि ज्ञात्वा रामदेवेन लेखितं । श्रीमहावीरचरितमात्म[नः ] श्रेयसे मुदा ॥ १३ ॥ मनोज्ञपत्रसंयुक्तं सदक्षरविराजितं । भुवनचंद्रगणये दत्तं सद्भक्तियोगतः ॥ १४ ॥ पृथ्वीपीठकृतास्पदः सुरगिरिः सौवर्णकुंभश्रियं धत्ते वर्त्तुधिष्ण्यमौक्तिकलतागुच्छैः समंताद् वृतः । संछन्नो गुरुकल्पपादपदलैर्यावत् सदा मंगलं तानंद पुस्तको मुनिगणैः पापठ्यमानश्विरं ॥ १५ ॥ The following is added in a different hand. मौनं बौद्ध ! कुरु श्रुतेन रहितो नैयायिक ! त्वं सदा भो भो सांख्य ! भवादृशां न समयस्ते जैमिने ! नोऽधुना । भो वैशेषिक ! सत्वरं प्रसरतां ( ं) युक्तं कुबोधस्पृशां संप्रत्येष कुवादिकुंभिदलने श्रीहेमसूरिर्हरिः ॥ १ ॥ 287
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy