SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ No I. SANGHAVI Pipi 257 The work from which this Pras'asti is taken is not known. ............पल्लीवालकुले तत्सुतश्च वीराकः ।। तस्य सुतौ विदितो जगति महणसिंहाख्य-बीजाख्यौ ॥ १ ॥ बीजाकस्य श्रीरिति समजनि भार्या सुतात्रयस्तस्य । ज्येष्ठः कुमारपालो द्वावनुजौ भीम-मदनाख्यो ।॥ २ ॥ आधस्य जायामहणदेव्यामंगभवास्त्रयः। राणिगो वइराभिख्यः पूनाकश्चेति नामतः ॥ ३ ॥ तेषु राणिगपुत्रस्य झांझणस्य तनूद्भवाः । सलषा-विजपालाख्य-नरिया-जेसलसंज्ञिताः ॥ ४ ॥ सलपाकस्यास्ति खींमसिंहसंज्ञस्तनुरुहः । विजपालस्य पुत्रौ द्वौ जयसिंहो गुणैकभूः ॥ ५ ॥ नरसिंहश्च नरियाकस्य श्लाघ्यगुणांबुधेः । भार्यायां नागलदेव्यां जाताः संति सुतास्त्रयः ॥६॥ ते चैते लखमसिंहो रामसिंहश्च गोबलः । सक्रियौदार्य-यात्राद्यैः कृत्यैर्ये सज्जनोत्तमाः ॥ ७ ॥ वंशः प्रौढो भीमस्याजनि कपुरदेविजायायां : मदनस्य सरस्वत्यां देपालाख्यो बभूव सुतः ।। ८ ॥ तस्याथ धर्मज्ञजनालिसीनो भीमस्य निस्सीमगुणांबुराशेः । पुत्राः पवित्राश्चरितैकपात्रं चत्वार आसन् विशदावदाताः ॥ ९॥ तेषामाद्यः पद्मनामा यदीयो धीधाख्योऽभूत सूनुरन्यूनबुद्धिः । धौरेयो यो देव-गुर्वादिकार्ये पूनाह्वानस्तस्य पुत्रोऽधुनास्ति ॥ १० ॥ द्वितीयः साहणो यस्य पौत्रोऽस्ति कद्रुयाभिधः।। तृतीयस्तनयो जज्ञे सामतः संमतः सतां ॥ ११ ॥ तुर्योथ सौवर्णिकवर्णवर्ण्यनुराभिधः सुधापेयलसच्चरित्रः। तस्य प्रिया सूहवदेवीनाम्नी तयोरभूतां च सुतौ गुणाढ्यौ ॥ १२ ॥ प्रथमोऽत्र प्रथमसिंहः पाल्हणसीहो द्वितीयकः सूनुः । तस्य च पाल्हणदेव्यां लींबा आंबाभिधौ तनयौ ॥ १३ ॥ अथ प्रथमसिंहस्य सौवर्णिकशिरोमणेः । प्रिया प्रीमलदेवी ति पुण्यप्रेमपराजनि ॥ १४ ॥ तयोश्च तनयाः पंच सदाचारधुरंधराः। स्वावदातशतैर्भूमिसुस्थिरीकृतकीर्तयः ॥ १५ ॥ सोमा-रतन-सिहाक-साल्हा-डूंगरसंज्ञिताः । तेषु सोमाभिधानस्य सौम्यत्वादिगुणांबुधेः ॥ १६ ॥ 33
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy