SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ 258 PATTAN CATALOGUE OF MANUSCRIPTS भार्यायां साजणदेव्यां चत्वारः संति सूनवः । सद्गुणा नासण वासा गोधा राघवसंज्ञिताः ॥ १७ ॥ रत्नो द्वितीयोजनि सिंहयुक्तो दानांबुशीतीकृतभूरिलोकः । संघाधिपत्वं विमलाचलादिश्रीतीर्थयात्राकरणाद् य आप ॥ १८॥ प्रियायां रतनादेव्यामस्य पुत्रा गुणाब्धयः । । धनः सायरनामा च सहदेवस्तृतीयकः ॥ १९ ॥ तृतीयकस्तस्य सुतोऽस्ति सिंहाभिधः सुधीरोपत(?)मानमात्रं । गुणाः प्रभूतप्रतिभा-प्रभाद्या व्यधुस्तरां यत्र दृढानुबंधं ॥ २०॥ श्रीद्धजयानंदगुरु-सूरिश्रीदेवसुंदरगुरूणां । सूरिपदमहश्चक्रे येन महान् ख-द्वि-भुवनाब्दे ॥ २१ ॥ तस्य च सहचारिण्यः पुण्याचरणैकमानसास्तिस्रः । सोपलदेवी दूल्हादेवी पूजीति विख्याताः ॥ २२ ॥ अंत्यभार्याद्वयोत्पन्नौ तस्य द्वावंगसंभवौ। आद्य आसधरो नाम नागराजाह्वयोऽनुजः ॥ २३ ॥ तुर्योथ साल्हाभिध आत्मबंधुभक्ति-स्वभावार्जव-धैर्यभूमिः । तस्य प्रिया पुण्यपरास्ति हीरादेवी तयोः सप्त सुताश्च संति ॥ २४ ॥ इह देवराज-शिवराज-हेमराजाश्च खीमराजश्च ।। भोजाख्यो गुणराजो वनराजश्चेति गुणभाजः ॥ २५ ॥ इतश्च । सर्वकुटुंबाधिपतेः सिंहस्यादेशतस्तमालिन्यां । स्तंभनकाधिपचैये भू-चतुरुदधींदुसंख्येऽब्दे ॥ २६ ॥ धनाक-सहदेवाभ्यां चक्रे सूरिपदोत्सवः । श्रीज्ञानसागराख्यानां सूरीणां हर्पितावनिः ॥२७॥ तथा सौवर्णिकश्रेष्ठाश्चक्रुः सूरिपदोत्सवं ।। महा लखमसिंहो रामसिंहश्च गोवलः ॥ २८ ॥ द्वि-वाधि-युग-भूवर्षे प्रीणिताशेषभूतलं । श्रीकुलमंडनात् सूरिश्रीगुणरत्नसंज्ञिनां ॥ २९ ॥ युग्मं । अत्र साल्हाकुटुंबस्य प्रस्तुते नामवर्णने । तस्य स्वजनानामपि किंचिन्नामाद्यलिख्यत ॥ ३० ॥ ततः सौवर्णिकोत्तंससाल्हाभार्या विशुद्धधीः । शीलादिभिर्गुणैः ख्याता हीरादेवीति संज्ञिता ॥ ३१ ॥ सौवर्णिकशिरोरत्नलूंढा-लाखणदेवीजा। शत्रुजयादियात्राभिः पुण्योपार्जनसादरा ॥ ३२ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy