SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ 248 PATTAN CATALOGUE OF MANUSCRIPTS तामूढवांश्चांडसिंहस्तत्तनूजा गुणोज्वलाः । आद्यः पृथ्वीभटो धीमान रत्नसिंहो द्वितीयकः ॥ ९ ॥ वदान्यो नरसिंहश्चतुर्थमल्लस्तु विक्रमी । विवेकी विक्रमसिंहश्वाहडश्च शुभाशयः ॥ १०॥ मूंजालश्चेत्यमीषां तु कल्याणाय कृतोद्यमा । स्वसा खोखी रता धर्मे पत्न्यश्चैषां क्रमादि[माः] ॥ ११ ॥ प्रथमा सूहवदेवी सूहागदेव्यथापरा । निपुणा नयणादेवी प्रतापदेव्यथो मता ॥ १२ ॥ भादला चांपलादेवी पूर्वाचारपरायणा । आसां च पुत्राः पुत्र्यश्चाभवन भाग्यभरांचिताः ॥ १३ ॥ श्रेष्टिनो या ध(वाग्ध)नस्यैते दे(वं वं)शे वृद्धिमुपेयुषि । श्रीरत्नसिंहसूरीणां पार्श्वे शुश्राव देशनां ॥ १४ ॥ पेथडः प्रवराचारः प्रयुक्तो निजबंधुभिः । जनकस्य सदा भक्तो रक्तो धर्मगुणार्जने ॥ १५ ॥ दानं धनस्योत्तममस्ति लोके ज्ञानात् पुनस्तत् कथितं जिनेंद्रैः। तत्रापि सिद्धांतसमं न ज्ञानं दानं तु तस्यैव महत् प्रधानं ॥ १६ ॥ इत्याकर्ण्य स गौतमस्य वदनांभोजेषु भुंगावलि कल्पं चैवमलीलिखत् भगवतीसूत्रं सटीकं मुदा । श्रीसिद्धांतविचारसार............. ...........................श्रेयसे पेथडः ॥ १७ ॥ वेद-याण-हुताशेंदुमिते विक्रमवत्सरात् । ......पुस्तकव्याख्यानं कारयामास यः पितुः ॥ १८ ॥ तिग्मांशौ युवराजतां सचिवतामारोप्य जीवे कवौ छाया-क्ष्मासुतयोः पुरा वनपदं सल्लेखकत्वं बुधे । राज्यं तारकपत्तियुक् प्रकुरुते ...दक्षजे...... ...............प्रकाशं सतां ॥ १९ ॥ Colophon: संवत् १३५३ वर्षे अयेह वि(वी)जापुरे श्रीसोमतिलकसूरिभिः श्रीभगवतीसूत्रपुस्तकं व्याख्यातं चार्चितं पं० हर्पकीर्तिगणिना ॥ ७ ॥ ७ ॥ शुभं भवतु श्रीसकलसंघस्य ॥७॥ ४१०. धर्मविधिवृत्ति (त्रुटित) by जयसिंह. प. २५८, २९४२"
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy