SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ No I. SANGHAVI PĀNA 247 247 End: यः शब्दोम्वय-व्यतिरेकाभ्यां वाचकत्वेन दृश्यते । स तस्याथः (र्थः) यथा गवाविशब्दानां सानादिमदादयो.......... एकवचनस्रीशब्दस्य परिभापितोर्थोऽस्ति । दृश्यते त्वागमे लोकरूढ एवार्थे स्त्रीशब्दः इत्थीओ जं... The original Ms from which the present manuscript is copied seems to have been much damaged as the copyist las left out many lines. ४०८. योगशास्त्रविवरण ( द्वादशप्रकाश ). ले. सं. १२७५ प. ३६५* ४०९. भगवती (मूल). प. ४३४; ३३३"४२३" Pras'asti of the Donor: श्रीद्वादशांगहिमरश्मिसमुद्रसुल्याः कल्याणपंकजविकासनभानुभासः । अज्ञानदुस्तरतमोभरदीपिकामा विश्वं पुनंतु किल वीर जिनस्य वाचः ॥१॥ सम्यक्सम्यक्त्वसिंहाक(१)तसुकृतिमनःकंदरः स्थैर्य सारः प्रस्फूर्जत्कीर्तिचूलो विनय- नय-शमामूल्यरत्नाभिरामः । दानाद्युद्दामधर्मप्रवरवनवृतः श्रीसमिद्धः पृथिव्या मास्ते प्राग्वाटवंशस्त्रिदशगिरिरिवानेकसत्कृत्यशंगः ॥ २ ॥ योऽचीकरन्मंडपमात्मपुण्यवल्लीमिवारोहयितुं सुकर्मा । ग्रामे च संडेरकनाम्नि वीरचैत्येऽजनि श्रेष्टिवरः स मोखूः ॥ ३ ॥ मोहिनी नाम तत्पत्नी चत्वारस्तनयोत्तमाः। यशोनागो धर्मधुर्यः वागधनः शुद्धदर्शनः ॥ ४ ॥ प्रल्हादनो जाल्हणश्च गुणिनोऽमी तनूभवाः । वाग्धनस्य गृहिण्यासीत् सीतू सम्यक्त्व-शीलभाक् ॥ ५ ॥ तत्कुक्षिभूरभूत् पुत्रश्चांडसिंहो विशुद्धधीः । सद्धर्मकर्मनिष्णातो विनयी पूज्यपूजकः ॥ ६ ॥ . पंच पुत्र्योऽभवन् खेतू मूंजला रत्नदेव्यथ । मयणल-प्रीमले सर्वा निर्मला धर्मकर्मभिः ॥ ७ ॥ इतश्च । वीजाभिधोऽभवन्मंत्री खेतूनाम्नी च तत्प्रिया । तत्पुत्री गौरदेवीति धर्मकर्मसु सोद्यमा ॥ ८ ॥ * ३२१ क्रमाङ्केन सह सम्बद्धं ज्ञायते ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy