SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ 236 End: - PATTAN CATALOGUE OF MANUSCRIPTS यतः.......... यथाविधिस्तबकघटनादुज्जृंभंते यशांसि तु शिल्पिनः ॥ ९ ॥ कलश (मठ) घनभृतांभोराशिसंवासिसर्पाधिपतिकलित मूर्तिर्नीलनालीककांतिः । सितरुचि - रविराजल्लोचनः केवलश्रीपरिचयचतुरात्मा श्री जिनो वः श्रियेस्तु ॥ १ ॥ श्रीवर्धमानः शमिनां मनांसि जिनो घिनोतु त्रिपदी यदीया । व्याप्नोति विश्व बलिघातकर्म्मजयोदिता विश्वमनश्वरश्रीः ॥ २ ॥ श्री वीरशासन महामहिमा गरिष्ठः श्रीभद्रबाहु विहिताचरणप्रतिष्ठः । काले कलावपि लुप्तघनाघसंघः श्रीमानयं विजयते यतिमूलसंघः ॥ ३ ॥ श्रीनागेंद्र कुले मुनींद्रसवितुः श्रीमन्महेंद्रप्रभोः पट्टे पारगतागमोपनिषदां पारंगमप्रामणीः । देव : संयमदैवतं निरवधिस्त्रैविद्यवागीश्वरः संजज्ञे कलिकल्मषैरकलुषः श्रीशांतिसूरिगुरुः ॥ ४ ॥ शक्तिः कापि न कापिलस्य न नये नैयायिको नायक चार्वाकः परिपाकमुज्झितमतिर्बोद्धश्च नौद्धत्यभाक् । स्याद्वैशेषिकशेमुषी च विमुखी वादाय वेदांति के दांति: केवलमस्य वक्तुरयते सीमां न मीमांसकः ॥ ५ ॥ तत्पट्टे प्रथमः शमिप्रभुरभूदानंद सूरिः परः संजज्ञेऽमरचंद्रसूरिरखिलानूचानचूडामणिः । शश्वद् यस्य सरस्वतीप्रसरणे सिद्धेशितुः संसदि प्राज्ञैश्चेतसि वेतसीतरुरसावाचार्यकं कार्यते ॥ ६॥ सिद्धांतोपनिषन्निषण्णहृदयो धीजन्मभूस्तत्पदे पूज्यः श्रीहरिभद्रसूरिरभवचारित्रिणामप्रणीः । भ्रात्वा शून्यमनाश्रयैरतिचिराद् यस्मिन्नवस्थानतः संतुष्टैः कलिकालगौतम इति ख्यातिर्वितेने गुणैः ॥ ७ ॥ गुरुः श्रीहरिभद्रोयं लेभेधिकवयः स्थिति । मोहद्रोहाय चारित्रनृपनासीरवीरतां ॥ ८ ॥ तत्पट्टे विजयसेनसूरयः पूरयंति कृतिनां मनोरथान् । तद्गवी वृषमसूत नूतना कामधेनुरिव सर्वकामदं ॥ ९ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy