________________
No I. SANGIHAVI PAPA
237 गर्वात् पूर्वमनादरैरवहितैः पश्चात् ततो विस्मितैः
प्रस्विनैरनु विस्मृतात्मभिरथो वादेनुवादे क्षणात् । भाग्यैर्मानिमनीषिणां परिणता पुंस्त्वेन वागेष इ
त्याक्षिप्तैरथ सेव्यतेथ सहसा यः सादरं वादिभिः ॥ १० ॥ यस्योपदेशममृतोपमितं निपीय श्रीवस्तुपालसचिवेश्वर-तेजपालौ । संघाति(धि)पत्यमसमं जिनतीर्थतेजःसंवर्धनाजितशतक्रतुस्तौ (?) ॥ ११ ॥ श्रीमद्विजयसेनस्य सौमनस्यं नमस्यत । यद्वासिता धृताः कैर्न गुणाः शिष्या सु(श्व ?: स्व)मूर्धसु ? ॥ १२ ॥ शिष्यस्तस्य च लक्षणक्षणचणः साहित्यसौहित्यवा___ नुद्यतर्कवितर्ककर्कशमतिः सिद्धांतशुद्धातुरः । श्रीधर्माभ्युदये कविः प्रविलसदुर्वादिगोत्रे पविस्तामेतामुदयप्रभाख्यगणभृद् वृत्तिं व्यधात कर्णिकां ॥ १३ ॥ तस्याज्ञया विजयसेनमुनीश्वरस्य
शिष्येण सेयमुदयप्रभदेवनाना । योग्या विशेषविदुषामुपदेशमाला
वृत्तिः कथाप्रथनतोभिनवा वितेने ॥ १४ ॥ प्रथमादर्शे प्रथमानमानसो देवबोधविबुध इमां । स्थपतिरिव स्थापयिता गुरुपु नतोतनुत साहाय्यं ॥ १५ ॥ चांद्रे कुले कलशतः किल सूरिदेवानंदाप्रशिष्यकनकप्रभसूरिनाम्नः । प्रद्युम्नसुरिरुदितः कवितासमुद्रमुष्टिंधयोंबुवदशोधयदेष वृत्तिं ॥ १६ ॥ उत्सेकतोत्सूत्रनिरूपणाद्यैर्याशातना स्यात् तनुतापि काचित् । मिथ्यास्तु मे दुष्कृतमत्र साक्षी श्रीसंघभट्टारक एव तीर्थ ॥ १७ ॥ एकैकेन विमोहशक्यचरणांश्छित्त्वा कपायानिमान
दीप्ते भानु-कृशानुधामनि मनश्चैकेन हुत्वात्मनः। मंत्रस्याष्टशतैरितीह जपितैस्तैः पंचभिः सिद्धये
गाथामिर्गुरुगुंफिता विजयते जप्योपदेशावलिः ॥ १८ ॥ कल्पाविःकिरणादितो विवरणाद् विज्ञाय विज्ञात्मना
मानायादुपदेशपद्धतिमिमामासेवमानो मुदा । लोकाग्रोपरिवर्तिनीमभिमुखीं कुर्वीत वीतान्यधी
वृत्तिनिर्वृतिदेवतां शिवपुरीसाम्राज्यकामः कृती ॥ १९ ॥