SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ 229 No I. Sanghaví Pīrā तस्मिन् रमायाः सदने दवीयोदेशस्थवस्तुप्रभुभिः प्रपूर्ण । वेलाकुले भूमितलप्रसिद्ध घोघाभिधाने नगरे समृद्धे ॥ ३ ॥ त्रिभिर्विशेषकं ।। वेधा वीक्ष्य कलिप्रचंडभुजगप्रस्तं समस्तं जगत् तत्राणाय ससर्ज तर्जनपरां यां दुर्जनानां ततः । ज्ञातिं पूर्णमृगांककांतिविशदां श्रीमालसंज्ञामिह __ शश्वद्दाम-विवेकवासभवनं विज्ञानवारांनिधिं ॥ ४ ॥ तस्यां ज्ञातौ बृहत्यामतिमतिविभवापास्तवाचस्पतिः श्री क्रीडागारं गरीयोनरवरनिवहेमाननीयः सदापि । मंत्री मंत्रप्रबलबलवान धुर्यधैर्या दिवर्यः । मांडाह्वानः समजनि जनतासेवनीयोऽवनौ वै ॥ ५ ॥ श्रीयादेवीति तस्यासीद् भार्या भूरिगुणैकभूः । या मान-दान-शीलादिपुण्यैर्जज्ञे प्रसिद्धिभाक ॥ ६ ॥ तयोः सुतावजायेतां विख्यातौ क्षोणिमंडले । सरवण-धींधाह्वानौ प्रधानौ व्यवहारिपु ।। ७ ।। आधः सर्वणनामतः सुविदितो देवालयैः सुंदरां सत्साधर्मिकलोकलमबहलां गुर्वादिभिर्भासुरां । श्रीशजय-रैवतादिषु महातीर्थेपु यात्रां सृजन श्रीसंघाधिपतेः पदं निजकुले विस्तारयामासिवान् ॥ ८ ॥ पादलिप्तपुरेऽपूर्वललताहसरोवरे । उद्धारं यश्चकारोरुद्रविणव्ययपूर्वकः (क) ॥ ९॥ संसारदेवी स्थवि......... ...............लादिवरेण्य पुण्यैः फलेग्रहिः स्वीयजनुः ससर्ज ॥ १० ॥ द्वितीयोऽद्वैतभाग्याभिरामः श्रीमान् धीमान धींधनामाजनिष्ट । यो दुष्काले भूरिलोकानशोकान् सत्रागारे भोजयित्वा वितेने ॥ ११ ॥ पादलिप्तपुरे पद्मप्रासादं यः समुद्दधौ । अन्यान्यपि बहून्येप धर्म[स्था]नानि चाकरोत् ॥ १२ ॥ सरवणसंघाधिपतेस्तनयो विनयोज्वलो गुणविशालः । देवानादि नाम धी(? संघा)धिपतिर्जयति प्रशममतिः ॥ १३ ॥ सद्भाग्य-सौभाग्य-कला-सुशीला दानादिपुण्येषु च धीधुरीणा । अस्यास्ति जाया............रमा परा धि(पि)मलदेवीनाम्नी ॥ १४ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy