SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ 228 Partav CATALOGUE OF MANUSCRIPTS प्रभूतपुण्यार्जनसावधानस्तस्यांगजोभूद् वयजाभिधानः । गुणैरनेकैरिह निःसमानः परोपकारप्रध(थ)नैकतानः ॥ २ ॥ माऊसंज्ञा तस्य भार्या विधिज्ञा जज्ञे धन्यागण्यपुण्यप्रवीणा । कीर्तिस्फीता सर्वदोदारचित्ता रेखाप्राप्ता स्त्रीषु शीलोत्तमा च ॥ ३ ॥ चत्वार एते तनयास्तदीया जाता धनाढ्याः सुकृतावदाताः । तेजाभिधो भद्रकभीमसिंहः स पूर्णसिंहो भुवि पद्मसिंहः ॥ ४ ॥ सुता तथा रूपलनामधेया गुणैरमेया शुभभागधेया । यस्याः पितृव्या त(स्त)नुमात्रकेण श्रीमजयानंदमुनींद्रचंद्राः ॥ ५ ॥ आबालकालादपि...पुण्यभरैकताना करुणार्द्रचित्ता । देवे गुरौ भक्तिमती सतीद्धा सदा तपःकर्मणि कर्मठा या ॥ ६ ॥ श्रीमत्तपागणनभोंगणभानुकल्पश्रीदेवसुंदरगुरुप्रवरोपदेशात् । नंदेषु-वारिधि-शशांक[१४५९]मिते प्रतीते संवत्सरे वहति विक्रमभूपतीये ७ श्रीमत्पद्मचरित्रं बहुना द्रविणेन लेखयित्वेदं । श्रीपत्तनीयकोशे निवेशयामास सा सिद्ध्यै ॥ ८ ॥ मोक्षाध्वनीनसाधूनां ज्ञानसत्रोपमं परं । आचंद्रार्कमिदं जीयात् पुस्तकं प्रास्तदूषणं ॥ ९ ॥ श्रीः श्रीः । ३७२. (१) ज्ञातासूत्र. प. १-१४४; ३२°४२ (२) , वृत्ति by अभयदेव. प. १-१२३ Pras'asti of the Donor: अखंडेयः खंडैनवभिरभितः पिंडितवपुः __सुधाकुंडैः कुंभीनससहकृतैमंडित इव । सुरैः सेव्यः सर्वैरविजितजरा-मृत्युचकितैः प्रभुः स श्रीपार्थो जयति नितमां यत्र सततं ॥१॥ उद्दामम्लेच्छकोटिप्रसृमरसमरत्रस्तवृंदारकाणां विश्रामस्थानतां यत् प्रतिपदमगमत् पुण्यलोकैरशोकैः । चंचगंगातरंगोज्वलबहलगुणैर्धाम धर्मश्रियां यत् श्रीमद् घोघाभिधानं सुललितनगरं स्वस्तिमन्नित्यमस्ति ॥ २ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy