SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ 226 तथा। PATTAN CATALOGUE OF MANUSCRIPTS चत्वारस्तनया बभूवुरनयोः संपन्नकोशान्वया धर्माभ्यासपराः क्षमाभरधराः प्राप्तप्रतिष्ठाः कलौ । सत्यागा गुरुविक्रमाः सुयशसः सच्छकसाराः प्रजाः पूज्याः सद्विनयाः सुनीतिसदनं संतो नरेंद्रा इव ॥ २२॥ तत्राद्यश्चाहडो नाम वोहडिस्तु द्वितीयकः । आसडाख्यस्तृतीयश्च तुर्यो आसुधरस्तथा ॥ २३ ॥ पापारिप्रहतिसहाः सुबाणयुक्ताः सद्वंशसंजाताः । अन्यारूढगुणा ये धनुर्लता इव विराजते ॥ २४ ॥ राहडश्रेष्ठिनस्तत्र जाता वध्व इमा वराः । अश्वदेवी वसुंधी च चमाइ-तेजय-राजुकाः ॥ २५ ॥ यशोधर-यशोवीर-यशोकर्णादयोभवन् । पौत्री पुत्रश्च येऊ य जासुकाद्या जयंतु का ॥ २६ ।। एवं कुटुंबयुक्तस्य राहडश्रावकस्य तस्याथ । वोहडिनामा पुत्रः पंचत्वमुपागतः सहसा ॥ २७ ॥ अथ तद्वियोगविधुरः स राहडश्रावकः स्म चिंतयति । हा ! धिक् संसारस्वरूपमतिनिंदितं विदुषां ॥ २८ ॥ तथाहि-जीवितं यौवनं सद्वपुः सारसीमंतिनी संगमाः सज्जनाः । सर्वमित्यादिकं वस्तुजातं महामेघमध्यस्थविद्युल्लताचंचलं ॥२९॥ अतो मनुष्येण विधेय एव चतुःप्रकारोपि जिनेंद्रधर्मः । उशंति तत्रापि च सुप्रशस्यं सज्ज्ञानदानं मुनिकुंजरेंद्राः ॥ ३०॥ अतोहं ज्ञानदानं तत् करोमीति विचिंत्य सः । चरितं लेखयामास शांतेबिबं च कारितं ॥ ३१ ॥ स्वभुजोपात्तवित्तेन पूर्व सत्पित्तलामयं । गृहपूजोचितं स्फारं पुण्योपार्जनहेतवे ॥ ३२ ॥ नृपतिगृहमिवोच्चैश्चंचदंतःसुवर्ण निहितरुचिरचित्रं चारुपत्रेण शोभि । ..............अंगीकृतप(ब)हु...जमोदं पुस्तकं तच्चकास्ति ॥ ३३ ॥ संवत्सरे नग-भुजार्कमिते नभस्ये मासे पुरेणहिलपाटकनामधेये । सुश्रावके कुमरपालनृपे च राज्यं कुर्वत्यलिख्यत सुपुस्तकमेतदंग! ॥३४ श्रीमत्परमानंदाचार्येभ्यः श्रीधराः प्रभाचा...... । ..................शिष्येभ्यः ॥ ३५ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy