SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ No I. SANGHAVI PAPA 223 व्यवहारिवर्गमंडनमखंडदानादिधर्मविधिनिरताः । डाहा भोला मंडन माणिक्येति क्रमाद् विदिताः ॥ २३ ॥ जगदद्भुतसौंदर्ये भार्ये हीराभिधस्य जयतो द्वे । आद्या शाणीनाम्नी हीरादेवी द्वितीया च ॥ २४ ॥ भाग्य-दाक्ष्य-विनयादिगुणाढ्ये ते क्रमेण तनयावसुवातां । आदिमा विजयकर्णसकर्ण भूरिभूतिमपरा च गजाह्नं ॥ २५ ॥ मायादिदोषरहिता दयिता विभाति वीराभिधस्य फलकूरनुकूलचित्ता । या यौवनेपि विमलं प्रतिपद्य शीलं योपासु धैर्यविरहापयशः प्रमा ि॥२६॥ सुतौ तयोर्भाग्यभृतौ विनीतौ प्रभूतभूती गुणभूरभूतां । आद्यः कृती नंदति देवदत्तस्तथा द्वितीयो गुणदत्तनामा ॥ २७ ॥ पाताभिधानव्यवहारिमौलेरुभे अभूतां दयिते विनीते । तत्रादिमा सच्चरितैः पवित्रा पत्रापदेवी रतितुल्यरूपा ॥ २८ ॥ अपरा पदमलदेवी नित्यं श्रीवीतरागभक्तिपरा । तनुजौ मनुजौ च वराविमे क्रमेणासुवातां द्वौ ॥ २९ ॥ श्रीजिनेंद्रपदपंकजभक्तः सर्वदा सुकृतकर्मसु सक्तः।। आदिमो विजयते नगराजः कीर्तिपूरसितशारदराजः ॥ ३० ॥ उदयराज इति प्रथितोपरस्सकलपौरविभूपणमंगजः। जयति देव-गुरूत्तमभक्तिभृन्नरमणी रमणीयगुणालयः ॥ ३१ ॥ गोविंदनाम्नो दयितास्ति गंगादेवी सदा श्रीगुरु-देवभक्ता । न जातु धर्मामृतशीतलं यन्मनः कलिस्तापयितुं समर्थः ॥ ३२ ॥ तयोर्जयंत्यब्धिमिताः सुताः श्रीपदं महाभाग्यभृतो विनीताः । भृताश्चतस्रोपि दिशो यशोभिर्येपामशेपा हिमरुग्महोभिः ॥ ३३ ॥ आद्यो हरिश्चंद्र इति प्रतीतः सूनुर्द्वितीयः किल देवचंद्रः । ततस्तृतीयो जिनदासनामा प्ररूढनामा गुरु-देवभक्तः ॥ ३४ ॥ अथ च । श्रीजैनशासनसमुद्धरणकधीराः श्रीदेवसुंदरयुगप्रवरा विरेजुः । तेषां पदे जनमुदे विहितावताराः श्रीसोमसुंदरगुरुप्रवरा जयंति ॥३५॥ निःशेषलब्धिभवनं भुवनातिशायि माहात्म्यधामभरतोत्तमसंयमाद्याः(ढ्याः) । किं चात्र सर्वगुणसुंदरशिल्पसीमाभूता जयंत्यधिजिनेश्वरशासने ये ॥ ३६ ॥ चत्वारः श्रीमदाचार्यास्तेषां शिष्या जयंत्यमी । एकपादपि यैर्धर्मश्चतुःपादभवत् कलौ ॥ ३७ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy