SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ No. I. SANGIHAVI PADA 19 ततोभवद् गोह(ल्ह)णभूमिपालः प्रत्यर्थिभूपालकुलैककालः । तष द्वय.........सत्यतापः स्वरूपशोभाजितपुष्पचापः ॥ ७ ॥ तस्मादभूजगति विस्तृतसान्वयाख्यः __संख्योत्सवो विजितवैरिगुणो गुणाब्धिः । धीमान् परं विजयपाल इति प्रसिद्धिं यः सूरवंशमनयन्नयनाभिरामः ॥ ८ ॥ तस्माद् विक्रमपालभूपतिरभूद् यस्य प्रतापानलः प्रत्यर्थिक्षितिपाललालविगलद्रक्तोर्मिजालच्छलात् । चक्रे ते क्रमणं यशश्च गगने यः खगघाताच्छलाद् वैरिक्षोणिपकुंभिकुंभविगलन्मुक्ताफलच्छद्मना ॥ ९॥ खगाभिघातोद्गतपुष्करा दलत्कपोला वलयाचलायिता । कर्णाटराजश्व(स्य) रणस्तु(णे तु) दंतिपटीयसा येन घटा विघट्टिताः ॥ शको विक्रमपालभूपतिरयं प्रत्यर्थिनां भूभृतां __ पक्षा येन निपातिता निपततां संख्ये निजेनीजसा । संत्यक्तानकदुंदुभिः परिहितस्फूर्जकपींद्रध्वज श्चक्रे संगरभंगुरोवनिपतिर्वज्रोपि पि(प)क्षोज्झितः ॥ चकार केषां विदुषां न गेहे द्विपां च केषां न जहार गेहान् । ससंपदो विक्रमपालभूपचंडांशुवंशस्य लसत्प्रदीपः ॥ तं स्तोतुं प्रभवो भवंति कवयो यद्विक्रमप्रक्रमात् भीतानामभवत् रणेषु शरणं तद्भूभृतां भूभृतः । यभीतेरभियो बभूव शतधा वनस्य तन्मानसं व्यालालीकरमंडलैककदलीकांडेपु यखेलनं ॥ गुणो गणानां गणनादरिद्रस्त्यक्तो जयो यस्य पराजयेन । न दुर्यशःसंगमभंगशंकि यशो दिशां लंघनजांघिकं च ॥ त्यागं भोगं विवेकं कुल-बल-विनयान् शील-कीर्ति-प्रतापान् । गांभीर्य-स्थैर्य-धैर्याण्यवितथवचनं भाग्य-सौभाग्य-मानान् । भक्तिं संभा(शंभो)रन(ग)म्यां गुणगणनिलयस्यास्य भूपस्य वक्तुं शक्तो नक्तंचराणामपि भवति गुरु! किमन्यो वराकः ? ॥ बभूव तस्मादथ रुद्रपालः प्रत्यर्थिभूपालदवाग्निलीलः । यस्मात् पतद्धेतिकुलाकुलानां रणे रिपूणां तृणता बतासीत् ।।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy