________________
109
No I. SANGHAVI PĀŅĀ
109 उत्तुंगः सरलः सुवर्णरुचिरः शाखाविशालच्छविः
सच्छायो गुरुशैललब्धनिलयः पर्वश्रियालंकृतः । सद्वृत्तत्वयुतः सुपनगरिमा मुक्ताभिरामः शुचिः
पल्लीपाल इति प्रसिद्धिमगमद् वंशः सुवंशोपमः ॥ १ ॥ निस्तोमः परिपूर्णवृत्तमहिमा मुक्तामणिः प्रोज्वल
स्तत्राभूद् विमलोल्लसद्वसुरसौ श्रीचंद्रनामा गृही । श्रीमत्पार्श्वजिनेश्वरस्य सदनव्याजेन येनाहितो
मेदिन्यां स्वयशःप्रकाशधवलः स्फूर्य(ज)किरीटः स्फुटं ॥ २ ॥ तस्यासीद् गृहमेधिनी जिनवचःपीयूपपूर्णश्रुति
आई इत्यभिधा बुधैर्मुररिपोर्लक्ष्मीरिव प्रोच्यते । सा प्राचीव विवेकिसाभडसुधीसामंतसंज्ञौ सुतौ
सूर्याचंद्रमसाविव स्फुटकरौ धत्ते म्म पुत्राशयौ ॥ ३ ॥ आसीत् तद्भगिनी स्ववंशनभसः सञ्चंद्रिका निर्मला
नाम्ना श्रीमतिराश्रितागममतिः सद्दर्शनालंकृतिः । श्रुत्वा जैनवचो विवेच्य विविधं संसारनिःसारतां __ सद्यः श्रीजयसिंहसूरिसविधे दीक्षामसावग्रहीत् ॥ ४ ॥ तस्या एव भगिन्या शांतूनाम्ना विशालमभिलेख्य । आचारसूत्रपुस्तकमिह दत्तं श्रीमतिगणिन्यै ।। ५ ॥ इंदुर्यावदमंदमंदरगिरिर्यावत् सुराणां सरिद्
यावद् यावदिलातलं जलनिधिर्यावन्नभोमंडलं । यावत् सांद्रमनिंद्यनंदनवनं यावद् यशोस्त्यहतां
यावत् ताव दिह प्रबोधतरणिनद्यादसौ पुस्तकः ॥ ६ ॥ एतत् पुस्तकममलं सकलं श्रीधर्मघोषसूरीणां ।
व्याख्याहेतोरर्पितमिह सद्यः श्रीमतिगणिन्या ॥ ७ ॥ (२) आचारनियुक्ति.
प.१-३२ . प्रशस्ति Same as alhove. १६९. उपदेशमालावृत्ति by मुनिदेवसूरि. प. ६२८; १६३०x१" Beginning:
अर्हतमाद्यमुदितामलकेवलं तं नौमि प्रभु विगतराग-रुपस्य यस्य । धर्मोपदेशवचनामृतमाप्य भव्यश्रद्धालतामृतफलं विपुलं प्रसूते ॥ १॥