SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ 110 PATTAN CATALOGUE OF MANUSCRIPTS निर्वाणरमणीगणे सममहो दिग्वाससस्तेजसा कीर्त्या भासितमंबरं सह सितेनैवांबरेण प्रभुः । भुक्तिः केवलिनां स्वशासनरुचा सार्द्ध च योस्थापयत् तं वादीश्वरमात्मपूर्वजगुरुं श्रीदेवसूरिं स्तुमः ॥६॥ जयति सुगृहीतनामा कृष्णऋषि विकलोकशोकहरः । यस्य तपःकल्पतरुर्लब्धिफलैर विरलैः फलितः ॥ ७ ॥ सस्यांतरारिविजयी जयसिंहसूरिः शिष्यो बभूव भववारिधियानपात्रं । तत्प्रेरणानुगुणनित्यगतिप्रवृत्तिं वृत्तिं तनोम्यहमिमामनुकूललब्ध्यै ॥ ८॥ शास्त्रद्रुमस्यास्य स सूरिवर्यो यान्यर्थपुष्पाणि पुरा चिकाय । तान्येव संगृह्य तनोमि वृत्तिं मालामिवैतां प्रतिभागुणेन ॥ ९॥ श्रीशांतिवृत्तचैत्यस्थपतिधर्मोपदेशमालायाः । एतां रचयति विवृतिं श्रीमान मुनिदेवमुनिदेवः ॥ १० ॥ श्रीदेवानंदशिष्यश्रीकनकप्रभशिष्यराट् । श्रीप्रद्युम्नश्चिरं नंद्याद् ग्रंथस्यास्य विशुद्धिकृत् ॥ ११ ॥ धर्मादिचतुर्विध-मिथ्यात्वस्वरूप ९३ प्रभृतित्रिनवत्युपदेशसंग्रहः । End: इति श्रीधर्मोपदेशमालावृत्तौ अंत्यगाथाया व्याख्या। श्रीचंद्रगच्छत्रिदशद्रुमस्य शाखा बृहद्गच्छ इति प्रतीतः। । गणो गुणौघप्रवणैर्मुनींद्ररत्नैः समंतादपि राजमानः ॥ १॥ भव्यचिंतामणिस्तत्र देवसूरिः प्रभुर्बभौ । यस्य शक्यः परिच्छेत्तुं महिमा म(न)हि मादृशैः ॥ २ ॥ जाता विद्यानवद्याः कति न गणभृतः किं तु तैस्तैर्गुणौघैः प्रौढानामद्य यावत् प्रगुणयति मुदं देवसूरिप्रभोर्गीः । वृक्षाः के नाम नात्र प्रतिवनमवनौ संति माकंदमुख्या दत्ते रंगं जनानां पुनरसमतमं नागवहयेव पत्रे ॥ ३ ॥ आद्योस्य भद्रेश्वरसूरिनामा शिष्योन्यशिष्योदयहेतुरासीत् । चित्रं तु etc. The Fol. Containing the remaining portion of the Prasasti is lost. १७०. प. १९८; १५४४१३ (१) योगशास्त्र (४ प्रकाश ). प. ५० (२) पवजाविहाण. गां. २७ प. ५१-५३
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy