SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ सङ्ख्याकाः कृता ज्ञायन्ते । एका च पुस्तिका विशिष्टे स्थूलवस्त्र एव सं. १४१८ वर्षे लिखिताऽत्रोपलभ्यते । अस्य व्यवस्थापिका जैनसङ्घसंस्था 'शेठ धरमचंद अभेचंद (पेढी)' इति नाम्ना व्यवह्रियते । ४ तपागच्छ-भाण्डागार:-'फोफलीआ वाडा, आगली शेरी' इति स्थानस्थितेइस्मिन् २२ ता. पुस्तिकानां सङ्ग्रहः । जैनसङ्घसत्कः 'शेठ मूलचंद दोलाचंद' इत्यस्य व्यवस्थापक इदानीम् । ५ महालक्ष्मीपाटक-भाण्डागार:-महालक्ष्मीपाटके जैनोपाश्रये स्थितस्य ताडपत्रपुस्तिकाऽष्टकान्वितस्यास्य लघुसङ्ग्राहस्य व्यवस्थां जैनसङ्घीयः श्रेष्टी 'चुनीलाल घेलाचंद' इति करोति । ६ वाडीपार्श्वनाथ-भाण्डागारः-वि. सं. १६५२ वर्षे बृहत्खरतरगच्छीयजिनचन्द्रसूरिसदुपदेशेन प्राक् प्रतिष्टितस्य वाडीपार्श्वनाथ-विधिचैत्यस्यैकस्मिन् प्रदेशे स्थापितोऽयं भाण्डागारः । यस्य चैत्यस्य प्रशस्ति-शिलालेखः ‘एपिग्राफिआ इंडिका' [बॉ. १, पृ. ३२३] पुस्तकेऽत्रापि च परिशिष्ट प्रकाशितः । अत्र ताडपत्रीय पुस्तकचतुष्टयमेव प्रेक्ष्यते । गा. प्राच्यग्रन्थमालायां प्रकाशिताः तत्त्वसङ्ग्रह-हम्मीरमदमर्दनादयो ग्रन्था अस्य सङ्ग्रहस्यादर्शाधारेण । अस्य समुत्साही व्यवस्थापको जैनोणी 'वाडीलाल हीराचंद' अचिरात् परलोकं प्रयातः । __७ मोदी-भाण्डागार:--'मका मोदी' नाम्ना प्रख्यातोऽयं भाण्डागारः । इ. सन् १८८०-८१ वर्षे डॉ. कील्हॉर्नमहाशयेन 'मुंबईसरकार' कृते याः ७५ परिमिताः ताडपत्रीयपुस्तिकाः क्रीता याश्च पुण्यपत्तने( पूना) डेक्कन-कॉलेजसम्हे ( भां. रि. इन्स्टिट्वटमध्ये ) स्थापितास्ता इत एव तत्र गताः । १८९३ वर्षे चैनं दिदृक्षुर्द्विवेदी सखेदं निवेदयति स्म-'मका मोदीनुं नाम डॉ. भांडारकरे आप्युं छे पण ते माणसे भंडार बळी गयानुं कही कशुं बताव्युं नथी.' एवमवशिष्टस्य ता. पुन्तिकाद्वयस्य सूचनमत्र विहितम् । साम्प्रतमयं सङ्ग्रहः तपागच्छीयसागरशाखायाः सागरसंज्ञके उपाश्रये वर्तते । 'हेमचन्द्राचार्य जैनसभा' नामधेया संस्थाऽस्य संरक्षणादिव्यवस्थां करोति । ८ अदुवसीपाटक-भाण्डागारः-'अदुवसी पाडा' नामकस्थानस्थितेऽस्मिन् सङ्ग्रहे ता. पुस्तकद्वयमेव । उपरि सूचितेषु तदितरेषु च पत्तनीयेषु पुस्तकभाण्डागारेषु स्थितानां कागदपत्रात्मकानां लिखितानामुपयोगिनां ग्रन्थानां प्रारम्भ-प्रान्तादि-प्रशस्ति-परिचय-वक्तव्याद्युल्लेखो द्वितीये भागे विधास्यते। ग्रन्थविस्तरभयात् , जे. भां. सूच्यादावस्माभिः केपांचित् परिचायितत्वाच्चात्र सूचितेष्वपि केवलमप्रसिद्धानां ग्रन्थानां विषयविभागेन नामादि-निर्देशं कृत्वा, बृहट्टिपनिकायां नाम प्राचीनायां ग्रन्थरसूच्यां च येषामुल्लेखः समवाप्यते तेषां समन्वयं च प्रदत्यैव सन्तुष्यते ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy