SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ नामान्तररहस्यं च सप्रमाणं प्रोद्घाटयेत् । सम्यगवधार्य तदर्थ सत्कृत्यपरायणैर्विद्यानुरागतो विश्वविख्यातैः 'श्रीमंत सरकार महोदय सयाजीराव गायकवाड'महाराजैः ता. १५-९-१४ वर्षे दलालेत्युपाख्यो जैनविद्वान् चीमनलालः समाज्ञापित आसीत् । __ यशःशेप एष महाशयो गत्वा पत्तनं चिरं स्थित्वा च तत्र प्राचीनपुस्तकसंरक्षणसंग्रह-संशोधनादावसाधारणोद्यमिनां प्रवर्तककान्तिविजयादिजैनयमिनां सुसाहाय्येन प्रायशः सर्वानपि तत्रत्यान् जैनपुस्तकभाण्डागारान् प्रैक्षिष्ट । तेन तद्विषयकमाङ्ग्लभाषागतं ता. १७-४-१९१५ वर्षे विहितं निवेदनमनन्तरप्रकाशितग्रन्थप्रदर्शनपुरस्सरमितः परमत्रोपस्थाप्यते । तदानीमेव श्रीमतः सयाजीरावमहाराजस्य शुभाज्ञया प्रादुर्भूतायां प्रतिष्ठितायां च गायकवाडप्राच्यग्रन्थमालायां तत्तदप्रसिद्धोपयोगिदुर्लभग्रन्थानां सम्पादनादौ दत्तचित्तेन स्व. दलालेन वयं सङ्कलिताया अपि विशिष्टाया अस्याः सूच्या जीवनसमाप्ति यावत् मुद्रायन्नयोग्या प्रतिकृतिः (प्रेसकॉपी) न कृता कारिता वाऽऽसीत् । अथ च जेसलमेरुदुर्गभाण्डागारीयग्रन्थसूच्या इवास्या अपि सम्पादनकर्म विधिवशादस्मासु समापतितम् । प्रस्तुतकार्यसौष्ठवाथ सन्देहाद्यपाकरणार्थं च तत्तद्भाण्डागाराणां साक्षाद् दर्शनं समुचितं विचार्य राज्यविद्याधिकारिणो निदेशेन इ. सन् १९२६ वर्षेऽहमपि पत्तनमगच्छम् , मासं यावच्च तत्र स्थित्वा स्वयमवलोक्य तत्तत्पुस्तिका दलालसङ्कलिते सूचिपत्रे यापदावश्यकं वैशचं व्यधाम् । विशेषतोऽवतारितमुपयोगि नूतनमावश्यकमवतरणादि तु द्वितीयभागे प्रसिद्धिमधिगच्छेद् यतोऽयं प्रथमो भागः षट्शतीपरिमितानां प्रायशस्ताडपत्रीयपुस्तिकानां ग्रन्थानामष्टशत्याः प्रतीनां तु सपादसहस्रद्वयस्य परिचयार्थमेव परिकल्पित इत्यत एव च तादृशानां भाण्डागाराणामेवात्र परिचयः कार्यते । पुनरपि यूरोपस्थैरपि श्रीमद्भिः सयाजीरावमहाराजैः प्रेरिता राज्यविद्याधिकारिणः प्राच्यविद्यामन्दिराध्यक्षादयश्च जैनपुस्तकभाण्डागारान् विलोकितुं इ. सन् १९३३ वर्षप्रारम्भे पत्तनं गतवन्तः । यः साकमस्माकमपि योजनमभूत् । दिनद्वयेन तदानीन्तनस्थितिपरिज्ञानं व्यधायि । भाण्डागार-परिचयः। १ सङ्घवीपाटकभाण्डागारः। 'संघवी पाडा' संज्ञकस्थानस्थितोऽयं भाण्डागारश्चिरमसूर्यम्पश्य इवासीत् । प्राचीनानामप्रसिद्धानामत्युपयोगिनां ताडपत्रमयानां पुस्तकरत्नानां प्राधान्येनापूर्वोऽयं सङ्ग्रहः । वि. सं. १९१४ वर्षेऽत्र स्थितानां ४३४ ताडपत्रीयपुस्तिकानां नामनिर्देशवती प्रायोऽशुद्धा एका सूचिका ऋद्धिसागरेण निर्मिताऽभवत् । डॉ. जी. बहरमहाशय इमं भाण्डागारमघलोकयितुं कृतप्रयत्नोऽपि न सफलता प्राप%; तथापि तां सूचीमुपलब्धवान् , सूर्यपुरीयनारायणशास्त्रिणं प्रेर्यान्यां सूची च कारितवान् । सा चाशुद्धाऽऽसीदिति डॉ. कील्हॉर्न इत्यनेन निजे रिपोर्ट पुस्तके निरदेशि । प्रो. पी. पा० २
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy