SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ फो. भाण्डागारम् । कृतप्रयत्नोऽपि नापारयत् सङ्घवीपाटक-भाण्डागारे प्रवेष्टुम् । प्रयाणानन्तरं च प्राप्तानुमत्याऽन्यशास्त्रिद्वाराऽकारयत् तदीयं सूचिपत्रकमुपलब्धवांश्च प्राचीनां संक्षिप्तां सूचीम् । दुर्लभानां केषांचिद् ग्रन्थानां प्रतिकृति कारयामास । एतद्विषयकं रिपोर्टरूपं निजनिवेदनं प्राकाशयत् । इ. सन् १८८०-८१ वर्षे 'बोम्बे गवर्नमेन्ट'कृते डॉ. कील्हॉर्नतन्त्रेण क्रीतानि पुण्यपत्तने( पूना) डेक्कन कॉलेज( भां. रि. इ.) सञन्हे स्थापितानि पञ्चसप्ततिप्रमितानि ताडपत्रीयपुस्तकानीतः पत्तनात् मकामोदीसत्कभाण्डागारादेव तत्र गतानीति प्रसिद्धिः । इ. सन् १८८३ वर्षे मुंबईसरकारप्रेरितो डॉ. रा. गो. भांडारकरः प्रो. आ. वि. काथवटे इत्यनेन सह पत्तनमगमत् । अचिरं तत्र स्थित्वा कतिपयपुस्तकसङ्ग्रहानवलोक्य प्राप्तां शुद्धाशुद्धां ग्रन्थनामसूची च इ. सन् १८८३-८४ वर्षीये निवेदने न्यदर्शयत् । यत् १८८७ वर्षे प्रासिद्ध्यत । इ. सन् १८९२ वर्षे श्रीमन्नपवय-गायकवाडेत्युपाख्य-सयाजीत्याह्वयमहाराजानां खयंकृतनिदेशेन प्रो. मणिलाल न. द्विवेदी ददर्श तत्र दश जैनभाण्डागारान् , सङ्घहद्वयं चान्यत् । तद्विपयकं तन्निवेदनं प्रसिद्धजैनपुस्तकमन्दिरस्थहस्तलिखितग्रन्थानां क्रमप्रदर्शकपत्रमिति नाम्ना १८९६ वर्षे बडोदा-राजकीयमुद्रालये प्रसिद्धिमधिजगाम । इ. सन् १८९३ वर्षे पुनः मुंबईसरकारप्रेरितः प्रो. पी. पिटर्सनमहाशयः पत्तन प्राप । तत्र च फो. स्थानस्थां प्राग वस्त्रमञ्जूपेति परिचाय्यमानां प्राचीनताडपत्रीयपुस्तिकामञ्जुषां प्रेक्ष्य प्रामोदत । पञ्चसप्ततिपरिमितपुस्तिकासु वर्तमानानां ग्रन्थानां शतद्वयस्य प्रारम्भ-प्रान्तांशप्रदर्शनपूर्वकं परिचयस्तेनाकारि इ. सन् १८९२-९५ वर्षीये १८९६ वर्षे तन्नाम्ना प्रसिद्ध पञ्चमे 'रिपोर्ट' नामके पुस्तके । तदनन्तरं 'मुंबई' स्थानस्थया जैनश्वे. कॉ. संज्ञकसंस्थया पत्तनेऽन्यत्र स्थितानां च जैनपुस्तकभाण्डागाराणां प्रा. मं. जैनग्रन्थानां नामादिनिर्देशवती जैनग्रन्थावली प्रयत्नेन विरचय्य इ. सन् १९०९ वर्षे प्राकाशि । ___ एवं राजकीयरितरश्च स्वदेश्यः परदेशीयैरपि विहितेष्वपि विविधप्रयत्नषु अंशत उपयुक्तेष्वपि न नामापेक्षितकर्तव्यस्य परिपूर्णता साफल्यमथ च तादृगुपयुक्तत्वमित्यासीत् खल्वपेक्षा तादृशस्य सुप्रयत्नस्य । यः प्रामाणिकांशप्रोद्धरणेन विश्वसनीयतामापादयेत् सन्तोषं च जनयेत् । अप्रसिद्धग्रन्थानां प्रारम्भ-प्रान्तादिप्रदर्शनेन ग्रन्थानां ग्रन्थकर्तृणां च सविस्तरं विश्वास्यं परिचयं सम्पादयेत् । ग्रन्थकृत्प्रशस्त्या ग्रन्थलेखन-दान-सङ्ग्रहकर्तृणां प्रशस्त्युल्लेखादिनिर्देशेन च तत्कालीनस्थल-राजानुराग-राज्याधिकारि-जैन-जैनेतर-विद्ववैदुष्य-विद्याप्रेम-श्रीमत्ता-धर्मप्रियता-श्रमणगच्छ-कुलादिपरिस्थितिविषयकं विविधमैतियमपि प्रकाशयेन् । जीर्ण-शीर्ण-गत-लुप्तावशिष्टानां प्रसिद्धाप्रसिद्धानामुपयुक्तग्रन्था
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy