SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ अनुत्तरोपपातिकदशासूत्रम् । तृतीयो वर्गः महानिर्जरतरकश्चैव” “अथ केनार्थेन भदन्त ! एवमुच्यते एतेषां यावत् सहस्राणां महादुष्कर-कारकश्चैव महा-निर्जरतरकश्चैव ? एवं खलु श्रेणिक ! तस्मिन् काले तस्मिन् समये काकन्दी नाम नगर्यभूत् । उपरि प्रासादावतंसके विहरति । ततो न्वहमन्यदा कदाचित् पूर्वानुपूर्व्याचरन् ग्रामानुग्रामं द्रुतन् यत्रैव काकन्दी नगरी यत्रैव सहस्राम्रवनमुद्यानं तत्रैवोपागतः । यथाप्रतिरूपकमवग्रहमवगृह्य संयमेन यावद् विहरामि । परिषन्निर्गता । तथैव यावत्प्रव्रजितः । यावद् बिलमिव यावदाहारयति । धन्यस्य न्वनगारस्य पादयोः, शरीरवर्णनं सर्वं यावदुपशोभमानस्तिष्ठति । अथ तेनार्थेन श्रेणिक ! एवमुच्यते - एतेषांश्चतुर्दशानां श्रमणसहस्राणां धन्योऽनगारो महादुष्कर-कारको महा-निर्जरतरकश्चैव । ततो नु स श्रेणिको राजा श्रमणस्य भगवतो महावीरस्यान्तिके एतमर्थं श्रुत्वा निशम्य हृष्टस्तुष्टो यावत् श्रमणस्य भगवतो महावीरस्य त्रिकृत्व आदक्षिण- प्रदक्षिणां करोति, कृत्वा वन्दति नमस्यति च वन्दित्वा नत्वा च यत्रैव धन्योऽनगारस्तत्रैवोपागच्छति, उपागत्य धन्यस्यानगारस्य त्रिकृत्व आदक्षिण-प्रदक्षिणां करोति, कृत्वा ( तं ) वन्दति नमस्यति, वन्दित्वा नत्वैवमवादीत् - धन्योऽसि त्वं देवानुप्रिय ! सुपुण्यः सुकृतार्थः कृत-लक्षणः सुलव्धन्नु देवानुप्रिय ! त्वया मानुषकं जन्मजीवित-फलभितिकृत्वा वन्दति नमस्यति, वन्दित्वा नत्वा यत्रैव श्रमणः ० तत्रैवोपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं त्रिकृत्वो वन्दति नमस्यति, वन्दित्वा नत्वा च यस्य दिशः प्रादुर्भूत ७४ ]
SR No.010856
Book TitleAnuttaropapatikdasha Sutram
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalay
Publication Year1936
Total Pages118
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy