________________
छन्ते-मुख-दुःख-मोह-शुद्धयः सच्च-रजस्-तमो-विमुक्त्याख्या ऊर्चतिर्यगधोलोफाऽविभागाः संज्यसंश्यचेतनभावा वा । नियता एवैता विमुक्तिक्रमात् । सर्वज्ञता वा तुरीयं निरावरणमोहविघ्नं निद्रावियोग आत्यन्तिकः ॥ नयाभूत्तितस्यैवेदानी स्वरूपदर्शनार्थमुच्यते - तस्य च चतस्रोऽवस्थाः । तस्य अनन्तरप्रतिपादित चैतन्यतत्वस्येमाश्चतस्रोऽवस्था जाग्रत्सुप्तसुपुप्ततुरीयान्वख्याः , नागदवस्था सुप्तावस्था सुषु सावस्था तुरीयावस्था, एताश्चान्वर्थाः । ताश्च बहुधा व्यवतिष्ठन्ते, चतुर्थीमवस्थां मुक्त्वा तिसृणामेकैकस्याः प्रतिप्रक्रियं संज्ञादिभेदाल्लोकव्यवहारभेदाच्चानेकभेदत्वात् । चतुर्थी पुनरेक‘स्वरूपैव विशुद्धत्वात् । अथवा सापि स्वरूपसामर्थ्यात् सर्वात्मनैवानेकधा विपरिवर्तते, तद्यथा
जं जं जे जे भावे परिणमति पयोगवीससादव्वं ।
तं तह जाणाति जिणो अपञ्जवे जाणणा गन्थि ।। [आवश्यकनियुक्ति ७९४ ] कास्ताः? उच्यन्ते, सुख-दुःख-मोह-शुद्धयः सत्व-रजस्-तमो-विमुल्याख्याः। . कार्याणि चासां यथासङ्ख्यं तिसृणां तद्यथा-प्रसादलाधवप्रसवामिष्वगोद्धपंप्रीतयो दुःखशोषतापमेदापस्तम्भोद्वेगापद्वेपा वरणसदनापध्वंसनवीभत्सदैन्यगौरवाणि । चतुर्थ्यास्तु शुद्ध चैतन्यं सकलस्वपरिवर्तप्रपश्चसर्वभावावभासनम् । अथवा अवंतिर्यगधोलोकाविभागा वा यथासङ्ख्यमेव, अर्चलोको जाग्दवस्था, तिर्यग्लोकः सुप्तावस्था, सुपुप्तावस्था अधोलोका, अविभागावस्था तुरीयावस्था । संझ्यसंश्यचेतनभावा वा, संज्ञिनः समनस्का देवमनुष्यनारकंपञ्चेन्द्रियतियश्ची जाग्रति, सुप्ता असंज्ञिनः पृथिव्यवमिवायुवनस्पतिद्वित्रिचतुरिन्द्रियामनस्कपश्चेन्द्रियाः, काष्ठकुज्यादयः सुपुप्ताः, भवनमात्रं भावः सर्वत्राविभागा तुरीयावस्थेति । अत्राह-अविभागात्मनस्तस्यैवात्मनश्चतुरवस्थत्वात् कालभेदाभावाच्च चतस्रोऽपि प्रथमद्वितीयतृतीयतुरीयाख्याः स्युरिति, एतदयुक्तम्, यस्मानियता एचैता विमुक्तिकमात्, सर्वज्ञता वा तुरीयमिति, सुषुप्तावस्थायाः स्थिरीभूतचैतन्यायाः सुप्तावस्था विमुक्तमलत्वाद् द्वितीया मिथ्यादृष्टयादिका, तृतीया सम्यग्दर्शन[ज्ञान]चारित्रात्मिका मुक्तिप्रत्यासत्तेः, सर्वज्ञता चतुर्थी । तत् पुनस्तुरीयं निरावरणमोहविनम् , निर्गता ज्ञानदर्शनावरणमोहविना अस्मिन्निति निरावरणमोहविघ्नम्, मोहस्यैव महास्वापत्वात् ।
-नयय (मामान समानु ४२४२५) ५. १८१ અમર યશસ્વી ઉપાધ્યાયજી
વરતુતઃ વિચાર કરીએ તે જૈનદર્શન એ ઈ. સંપ્રદાય નથી. પણ એક દિવ્ય તત્ત્વજ્ઞાન છે કે જે તરવજ્ઞાનમાં સર્વછના એકાંતે કલ્યાણની અને શ્રેયની જ ભાવના ભરેલી છે.