SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ kat" AMER EME ॥ श्रीगोतमस्वामिनेनमः ॥ महोपाध्यायश्रीमद्यशोविजयजिद्गणिघय्यांणां गुणस्तुत्यष्टकम् ॥ [यंताठीयउन्दः] यशसा पलु विश्नुतात्मने जिनधर्मकनिवद्धचेतसे । विजयाय यशोऽभिधाय ते सदुपाध्यायवराय नौम्यहम् ॥ १ ॥ जितवादिगजेन्द्रसंहति परितः प्रौढविभाविभासितम् । नगदेकविपश्चितं न को भुवि जानाति सुतर्कपण्डितम् ॥ २ ॥ मुनिना निजजन्मनाऽमुना महनीयेन 'कनोह' नामकम् । पुरमत्यधिकं पवित्रितं कुरुते किन्नहि सत्समागमः ॥ ३ ॥ स्पृहणीयगुणं नयाभिधं विजयान्तं गुरुमाश्रितः सुधीः । तदुपासनया प्रपेदिवान् विमलशानविभासिसत्कियाम् ॥ ४ ॥ नगरी श्रुतसिद्धिसाधिका-मथ काशीमधिगत्य मन्जुलाम् ।। चिरमेकमनाः सरस्वती-मुपतस्थे तमसो निवृत्तये ॥ ५ ॥ समशास्त्रविमर्शकोविदः सदनेकान्तमताधिपारगः ।। हितकारिवरोपदेशकः किमु धन्यो न मुनीश्वरोऽवनी ॥ ६ ॥ रचिता विविधा गुणोज्ज्वलाः कृतयस्तर्कवितर्फमण्डिताः । विदुपा महता सुदुर्ग्रहाः विवुधा याभिरहो चमत्कृताः ॥ ७ ॥ जिनदर्शनतत्त्वदीपफः प्रशमादीद्धगुणोघसंवृतः । भविकवजयोधदायको गणिराजो नितरां विराजताम् ।। ८ ।। [ श्रीमन्नेम्यमृत देवचरणाजचश्वरीकायमाणो-हेमचन्द्रविजयो मुनिः ] BLOGYEES
SR No.010845
Book TitleYashovijay Smruti Granth
Original Sutra AuthorN/A
AuthorYashovijay
PublisherYashobharti Jain Prakashan Samiti
Publication Year1957
Total Pages505
LanguageHindi
ClassificationSmruti_Granth
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy