________________
३५४
• रायचन्द्रजैनशास्त्रमाला
अभ्युत्थानं ग्रहणमुपासनं पोषणं च सत्कारः । अञ्जलिकरणं प्रणामो भणितमिह गुणाधिकानां हि ॥ ६२ ॥ खतोऽधिकगुणानामभ्युत्थानग्रहणोपासनपोषणसत्काराञ्जलिकरणप्रणामप्रवृत्तयो
श्रमणानां न प्रतिषिद्धाः ॥ ६२ ॥
PA
[अ० ३, गा० ६३
अथ श्रमणाभासेषु सर्वाः प्रवृत्तीः प्रतिषेधयति -
अभुट्ठेया समणा सुत्तत्थविसारदा उवासेया । संजमतवणाणड्डा पणिवदणीया हि समणेहिं ॥ ६३ ॥ अभ्युत्थेयाः श्रमणाः सूत्रार्थविशारदा उपासेयाः । संयमतपोज्ञानाढ्याः प्रणिपतनीया हि श्रमणैः ॥ ६३ ॥
1
1
गाणं हि गुणाधिकतपोधनानां हि स्फुटम् । किं भणितम् । अब्भुङ्काणं गहणं उवासणं पोसणं च सकारं अंजलिकरणं पणमं अभ्युत्थानग्रहणोपासनपोषणसत्काराञ्जलिकरणप्रणामादिकम् । अभिमुखगमनमभ्युत्थानम्, ग्रहणं स्वीकारः, उपासनं शुद्धात्मभावनासहकारिकारणनिमित्तं सेवा, तदर्थमेवाशन शयनादिचिन्ता पोषणम्, भेदाभेदरत्नत्रय गुण प्रकाशनं सत्कारः, बद्धाञ्जलिनमस्कारोऽञ्जलिकरणम्, नमोऽस्त्वितिवचनव्यापारः प्रणाम इति ॥ ६२ ॥ अथाभ्यागतानां तदेवाभ्युत्थानादिकं प्रकारान्तरेण निर्दिशति - अब्भुडेया यद्यपि चारित्र - गुणेनाधिका न भवन्ति तपसा वा तथापि सम्यग्ज्ञानगुणेन ज्येष्ठत्वाच्छ्रुत विनयार्थमभ्युत्थेयाः अभ्युत्थेया अभ्युत्थानयोग्या भवन्ति । के ते । समणा निर्ग्रन्थाचार्याः । किंविशिष्टाः । सुत्तत्थविसारदा विशुद्धज्ञान दर्शनखभावपरमात्मतत्त्वप्रभृत्यने कान्तात्मकपदार्थेषु वीतरागसर्वज्ञप्रणीतमार्गेण प्रमाणनयनिक्षेपैर्विचारचतुरचेतसः सूत्रार्थविशारदाः । न केवलमभ्युत्थेयाः उवासेया परमचिज्योतिः परमात्मपदार्थपरिज्ञानार्थमुपासेयाः परमभक्त्या सेवनीयाः । संजम - तवणाणा पणिवदणीया हि संयमतपोज्ञानाढ्याः प्रणिपतनीयाः हि स्फुटं बहिरङ्गेन्द्रियसंयमप्राणसंयमबलेनाभ्यन्तरे स्वशुद्धात्मनि यत्नपरत्वं संयमः । बहिरङ्गानशनादितपोबलेनाभ्यन्तरे परद्रव्येच्छानिरोधेन च खखरूपे प्रतपनं विजयनं तपः । बहिरङ्गपरमागमाभ्यासेनाभ्यन्तरे स्वसंवेदनज्ञानं सम्यग्ज्ञानम् । एवमुक्तलक्षणैः संयमतपोज्ञानैराढ्याः परिपूर्णा यथासंभवं प्रतिवन्दनीयाः । कैः । समणेहिं श्रमणैरिति । अत्रेदं तात्पर्यम् — ये बहुश्रुता अपि चारित्राधिका न भवन्ति तेऽपि परमागमाभ्यासनिमित्तं यथायोग्यं वन्दनीयाः । द्वितीयं च कारणम्, सम्यक्त्वे ज्ञाने च पूर्वमेव दृढतराः अस्य तु नवतरतपोधनस्य सम्यक्त्वे ज्ञाने चापि दायै नास्ति सामने आते हुए देखकर उठके खड़ा होके सामने जाना, [ ग्रहणं ] बहुत आदरसे आइये, आइये, ऐसे उत्तम वचनोंकर अंगीकारकर [उपासनं] सेवा करना, [पोषणं ] अन्नपानादिकर पोषना, [ सत्कारं ] गुणोंकी प्रशंसाकर उत्तम वचन कहना, [ अञ्जलिकरणं ] विनयसे हाथ जोड़ना, [च] और [ प्रणामं ] नमस्कार करना योग्य है ।