________________
- रायचन्द्रजैनशास्त्रमाला - [अ० २, गा० १०७-. शुद्धात्मतत्त्वप्रवृत्तिलक्षणेन विधिना प्रवृत्तमोक्षस्य मार्गमधिगम्य सिद्धा बभूवुः, न. पुनरन्यथापि । ततोऽवंधार्यते केवलमयमेक एव मोक्षस्य मार्गों न द्वितीय इति । अलं च प्रपञ्चेन । तेषां शुद्धात्मतत्त्वप्रवृत्तानां तस्य शुद्धात्मतत्त्वप्रवृत्तिरूपस्य मोक्षमार्गस्य चाप्रत्यस्तमितभाव्यभावकविभागत्वेन नो आगमभावनमस्कारोऽस्तु । अवधारितो मोक्षमार्गः कृत्यमनुष्ठीयते ॥ १०७॥ ध्यायत्यनुभवतीति परिहारमुख्यत्वेन द्वितीया चेति ध्यानविषयपूर्वपक्षपरिहारद्वारेण तृतीयस्थले गाथाद्वयं गतम् । अथायमेव निजशुद्धात्मोपलब्धिलक्षणमोक्षमार्गो नान्य इति विशेषेण समर्थयति-जादा उत्पन्नाः । कथंभूताः । सिद्धा सिद्धाः सिद्धपरमेष्ठिनो मुक्तात्मान इत्यर्थः । के कर्तारः । जिणा जिनाः अनागारकेवलिनः । जिणिंदा न केवलं जिना जिनेन्द्राश्च तीर्थकरपरमदेवाः । कथंभूताः सन्तः एते सिद्धा जाताः । मग्गं समुद्विदा निजपरमात्मतत्त्वानुभूतिलक्षणमार्ग मोक्षमार्ग समुत्थिता आश्रिताः । केन । एवं पूर्व बहुधा व्याख्यातक्रमेण । न केवलं जिना जिनेन्द्रा अनेन मार्गेण सिद्धा जाताः समणा सुखदुःखादिसमताभावनापरिणतात्मतत्त्वलक्षणाः शेषा अचरमदेहश्रमणाश्च । अचरमदेहानां कथं सिद्धत्वमिति चेत् । "तवसिद्ध णयसिद्धे संजः सिद्धे चरित्तसिद्ध य । णाणम्मि दंसणम्मि य सिद्धे सिरसा णमंसामि ॥" इति गाथाकथितक्रमणैकदेशेन णमोत्थु तेसिं नमोऽस्तु तेभ्यः । अनन्तज्ञानादिसिद्ध. गुणस्मरणरूपो भावनमस्कारोऽस्तु तस्स य णिधाणमग्गस्स तस्मै निर्विकारस्वसंवित्तिलक्षणनिश्चयरत्नत्रयात्मकनिर्वाणमार्गाय च । ततोऽवधार्यते अयमेव मोक्षमार्गो नान्य इति ॥१०७॥ [एवं] इस पूर्वोक्त प्रकारसे [मार्ग] सम्यग्दर्शन ज्ञान चारित्रमयी शुद्धात्मप्रवृत्तिरूप मोक्षमार्गके प्रति [समुत्थिताः] उद्यमी होके प्राप्त हुए जो [जिनाः] उसी भवसे मोक्ष जानेवाले सामान्य चरमशरीरी जीव [जिनेन्द्राः ] अरहंत पदके धारक तीर्थकर और [श्रमणाः] एक दो पर्याय धारणकर मोक्ष जानेवाले ऐसे मोक्षाभिलाषी मुनि हैं, वे [ सिद्धाः ] मोक्षमें सिद्ध अवस्थाको [जाताः ] प्राप्त हुए हैं, [ तेभ्यः] उन सवको [च ] तथा [तस्मै निर्वाणमार्गाय] शुद्धात्माकी प्रवृत्तिमयी अनुभवरूप मोक्षमार्गको [नमः अस्तु] द्रव्य भावरूप नमस्कार होवे । भावार्थ-जो तीर्थकर वा सामान्यकेवली अथवा अन्य मुनि मोक्षको गये हैं, ये केवल शुद्ध आत्माकी प्रवृत्तिरूप मोक्षमार्गको पाकर ही मुक्त हुए हैं । शुद्धात्माके अनुभव विना दूसरा कोई मोक्षमार्ग नहीं है, यही अद्वितीय मार्ग है । अव बहुत विस्तार कहाँतक किया जावे, सारांश इतना है, कि जो शुद्धात्मतत्त्वमें प्रवर्तमान हैं, ऐसे सिद्ध परमेष्टियोंको और जो शुद्धात्मतत्त्वकी प्रवृत्तिमयी • अनुभधरूप मोक्षमार्ग है, उसको द्रव्य भावरूप नमस्कार होवे ॥ १०७ ॥