________________
- रायचन्द्रजैनशास्त्रमाला - [अ० २, गा० ९१- य एते पृथिवीप्रभृतयः षड्जीवनिकायास्त्रसस्थावरभेदेनाभ्युपगम्यन्ते ते खल्वचेतनत्वादन्ये जीवात् , जीवोऽपि च चेतनत्वादन्यस्तेभ्यः । अत्र षड्जीवनिकायात्मनः परद्रव्यमेक एवात्मा खद्रव्यम् ॥ ९० ॥ अथ जीवस्य स्वपरद्रव्यप्रवृत्तिनिमित्तत्वेन स्वपरविभागज्ञानाज्ञाने अवधारयति
जो णवि जाणदि एवं परमप्पाणं सहावमासेज । कीरदि अज्झवसाणं अहं ममेदं ति मोहादो ॥९१॥ .
यो नैव जानात्येवं परमात्मानं स्वभावमासाद्य ।
कुरुतेऽध्यवसानमहं ममेदमिति मोहात् ॥ ९१ ॥ यो हि नाम नैवं प्रतिनियतचेतनाचेतनत्वस्वभावेन जीवपुद्गलयोः स्वपरविभागं पश्यति स येन बन्ध इति कथनमुख्यतया गाथात्रयेण चतुर्थस्थलं गतम् । अथ जीवस्य खद्रव्यप्रवृत्तिपरद्रव्यनिवृत्तिनिमित्तं षड्जीवनिकायैः सह भेदविज्ञानं दर्शयति-भणिदा पुढविप्पमुहा भणिताः परमागमे कथिताः पृथिवीप्रमुखाः । ते के । जीवणिकाया जीवसमूहाः । अध अथ । कथंभूताः थावरा य तसा स्थावराश्च त्रसाः । ते च किंविशिष्टाः । अण्णा ते अन्ये भिन्नास्ते कस्मात् । जीवादो शुद्धबुद्धकजीवस्वभावात् । जीवो वि य तेहिंदो अण्णो जीवोऽपि च तेभ्योऽन्य इति । तथाहि-टङ्कोत्कीर्णज्ञायककखभावपरमात्मतत्त्वभावनारहितेन जीवेन यदुपार्जितं त्रसस्थावरनामकर्म तद्दयजनितत्वादचेतनत्वाच्च त्रसस्थावरजीवनिकायाः शुद्धचैतन्यस्वभावजीवाद्भिन्नाः । जीवोऽपि च तेभ्यो विलक्षणत्वाद्भिन्न इति । अत्रैवं भेदविज्ञाने जाते सति · मोक्षार्थी जीवः खद्रव्ये प्रवृत्तिं परद्रव्ये निवृत्तिं च करोतीति भावार्थः ॥ ९० ॥ अथैतदेव भेदविज्ञानं प्रकारान्तरेण द्रढयति-जो णवि जाणदि एवं यः कर्ता नैव जानात्येवं पूर्वोक्तप्रकारेण । कम् । परं षड्जीवनिकायादिपरद्रव्यं, अप्पाणं निर्दोषिपरमात्मद्रव्यरूपं निजात्मानम् । और परद्रव्यसे निवृत्ति इस बातकी सिद्धिके लिये स्वपरभेद दिखलाते हैं-[अथ] इसके बाद [ये] जो [पृथिवीप्रमुखाः ] पृथ्वीको आदि लेकर [जीवनिकायाः] जीवके छः काय जो [स्थावराः] स्थावर [च] और [नसाः] स [ भणिताः] कहे गये हैं, [ते] वे सब भेद [जीवात् अन्ये] चेतनालक्षण जीवसे अन्य अचे. तन पुद्गलपिंडरूप हैं, [च] और [जीवः अपि] जीवद्रव्य भी निश्चयसे [ तेभ्यः] उन नस स्थावररूप छह प्रकारके भेदोंसे [अन्य] जुदा टंकोत्कीर्ण ज्ञायकस्वरूप है । भावार्थ-जो कुछ कर्मजनित सामग्री है, वह सब परद्रव्यरूप है । उससे निवृत्त होकर निजद्रव्यमें ही प्रवृत्ति करनी चाहिये ॥ ९० ॥ आगे जीवके स्वद्रव्यमें प्रवृत्ति करनेसे भेदविज्ञान होता है, और परद्रव्यमें प्रवृत्ति करनेसे खपरभेदविज्ञानका अभाव होता है, यह दिखलाते हैं-[यः] जो जीव [एवं] पूर्वोक्त प्रकारसे अर्थात् चेतन और अचेतन स्वभावोंका निश्चयकरके [खभावं आसाथ] सच्चिदानंदरूप शुद्ध नित्य
-