________________
80.J
--- प्रवचनसारः
२४५
परिणामस्य विशेषौ, शुभपरिणामोऽशुभपरिणामश्च । तत्र पुण्यपुद्गलबन्धकारणत्वात् शुभपरिणामः पुण्यं, पापपुद्गलबन्धकारणत्वादशुभपरिणामः पापम् । अविशिष्टपरिणामस्य तु शुद्धत्वेनैकत्वान्नास्ति विशेषः । स काले संसारदुःखहेतुकर्मपुद्गलक्षयकारणत्वात्संसारदुःखहेतुकर्म पुलक्षयात्मको मोक्ष एव ॥ ८९ ॥
अथ जीवस्य खपरद्रव्यप्रवृत्तिनिवृत्तिसिद्धये स्वपरविभागं दर्शयतिभणिदा पुढविप्पमुहा जीवणिकायाध थावरा य तसा । अण्णा ते जीवादी जीवो वि य तेहिंदो अपणो ॥ ९० ॥ भणिताः पृथिवीप्रमुखा जीवनिकाया अथ स्थावराश्च त्रसाः । . अन्ये ते जीवाजीवोऽपि च तेभ्योऽन्यः ॥ ९० ॥
स्थानेषु तारतम्येन शुद्धोपयोगोऽपि भणितः । नयविवक्षायां मिथ्यादृष्ट्यादिक्षीणकषायान्तगुणस्थानेषु पुनरशुद्धनिश्चयनयो भवत्येय । तत्राशुद्धनिश्चयमध्ये शुद्धोपयोगः कथं लभ्यत इति शिष्येण पूर्वपक्षे कृते सति प्रत्युत्तरं ददाति-वस्त्वेकदेशपरीक्षा तावन्नयलक्षणं शुभाशुभशुद्धद्भव्यालम्बनमुपयोगलक्षणं चेति तेन कारणेनाशुद्धनिश्चयमध्येऽपि शुद्धात्मावलम्बनत्वात् शुद्ध ध्येयत्वात् शुद्धसाधकत्वाच्च शुद्धोपयोगपरिणामो लभ्यत इति नयलक्षणमुपयोगलक्षणं च यथासंभवं सर्वत्र ज्ञातव्यम् । अत्र योऽसौ रागादिविकल्पोपाधिरहितसमाधिलक्षणशुद्धोपयोगो मुक्तिकारणं भणितः स शुद्धात्मद्रव्यलक्षणाद्वेय भूताच्छुद्ध परिणामिकभावाद भेदप्रधानद्रव्यार्थिकनयेनाभिन्नोऽपि भेदप्रधान पर्यायार्थिकनयेन भिन्नः। कस्मादिति चेत् । अयमेकदेशनिरावरणत्वेन क्षायोपशमिकखण्डज्ञानव्यक्तिरूपः स च परिणामिक्रः सकलावरणरहितत्वेनाखण्डज्ञानव्यक्तिरूपः । अयं तु सादिसान्तत्वेन विनश्वरः, स च अनाद्यनन्तत्वेनाविनश्वरः। यदि पुनरेकान्तेनाभेदो भवति तर्हि घटोत्पत्तौ मृत्पिण्डविनाशवद् ध्यानपर्यायविनाशे मोक्षे जाते सति ध्येयरूपपारिणामकस्यापि विनाशो 'भवतीत्यर्थः । तत एव ज्ञायते शुद्धपारिणामिकभावो ध्येयरूपो भवति ध्यानभावनारूपो न भवति । कस्मात् । ध्यानस्य विनश्वरत्वादिति ॥ ८९ ॥ एवं द्रव्यबन्धकारणत्वात् मिध्यात्वरागादिविकल्परूपो भाववन्ध एव निश्च - कहा जाता है, और जो स्वरूपमें प्रवर्तता है, वह बंध कारणविशेप रहित है, इस कारण अविशेष परिणाम कहा जाता है । विशेष परिणामके शुभ अशुभ ऐसे दो भेद हैं । जो पुण्यरूप पुद्गलवंधका कारण है, वह शुभपरिणाम है, और जो पापरूप पुगलोंके बंधका कारण है, उसे अशुभ परिणाम जानना चाहिये | ये शुभ अशुभ परिणाम पुण्य पाप भी कहे जाते हैं, वास्तव में पुण्यादिकके कारण हैं, परंतु कारणमें कार्यका उपचार होता है, उसकी अपेक्षा पुण्य पाप कहे जाते हैं । तथा जो अविशेष परिणाम है, वह शुद्ध एकभाव है, इसलिये, उसमें भेद नहीं है, वह संसार में दुःखरूप पुद्गलक्षयका कारण है, और सकलकर्मक्षयलक्षण मोक्षका बीजभूत है । यहाँपर भी कारणमें कार्यके उपचारकी अपेक्षा यह शुद्धोपयोग मोक्षरूप ही जानना चाहिये ॥ ८९ ॥ आगे जीवकी स्वद्रव्य में प्रवृत्ति