________________
७५.] - प्रवचनेसार:
___ ९५ • अथ पुण्यस्य दुःखबीजविजयमाघोषयति
ते पुण उदिण्णतण्हा दुहिदा तण्हाहिं विसयसोक्खाणि । इच्छंति अणुभवंति य आमरणं दुक्खसंतत्ता ॥ ७५ ॥
ते पुनरुदीर्णतृष्णाः दुःखितास्तृष्णाभिर्विषयसौख्यानि ।।
इच्छन्त्यनुभवन्ति च आमरणं दुःखसंतप्ताः ॥ ७५ ॥ अथ ते पुननिदशावसानाः कृत्लसंसारिणः समुदीर्णतृष्णाः पुण्यनिर्वर्तिताभिरपि तृष्णाभिर्दुःखबीजतयाऽत्यन्तदुःखिताः सन्तो मृगतृष्णाभ्य इवाम्भांसि विषयेभ्यः सौख्यान्यभिलषन्ति । तदुःखसंतापवेगमसहमाना अनुभवन्ति च विषयान् जलयूका इव, ताव· द्यावत् क्षयं यान्ति । यथा हि जलयूकास्तृष्णाबीजेन विजयमानेन दुःखाकुरेण क्रमतः समाक्रम्यमाणा दुष्टकीलालमभिलषन्त्यस्तदेवानुभवन्त्यश्च प्रलयात् क्लिश्यन्ते । एवममी अपि पुण्यशालिनः पापशालिन इव तृष्णाबीजेन विजयमानेन दुःखाङ्कुरेण क्रमतः समाक्रम्यइति ज्ञायन्ते ॥ ७४ ॥ अथ पुण्यानि दुःखकारणानीति पूर्वोक्तमेवार्थं विशेषेण समर्थयतिते पुण उदिण्णतण्हा सहजशुद्धात्मतृप्तेरभावात्ते निखिलसंसारिजीवाः पुनरुदीर्णतृष्णाः सन्तः दुहिदा तण्हाहिं स्वसंवित्तिसमुत्पन्नपारमार्थिकसुखाभावात्पूर्वोक्ततृष्णाभिर्दुःखिताः सन्तः । किं कुर्वन्ति । विसयसोक्खाणि इच्छंति निर्विषयपरमात्मसुखाद्विलक्षणानि विषयसुखानि इच्छन्ति । न केवलमिच्छन्ति अणुभवंति य अनुभवन्ति च । किं पर्यन्तम् । आमरणं मरणपर्यन्तम् । कथंभूता। दक्खसंतत्ता दुःखसंतप्ता इति । अयमत्रार्थः-यथा तृष्णोद्रेकेण प्रेरिताः जलौकसः कीलालमभिलषन्त्यस्तदेवानुभवन्त्यश्चामरणं दुःखिता भवन्ति, तथा निज़शुद्धात्मसंवित्तिपराङ्मुखा जीवा अपि मृगतृष्णाभ्योऽम्भांसीव विषयानभिलषन्तस्तथैवानुभवन्तश्चामरणं दुःखिता भवन्ति । तत एतदायातं तृष्णातकोत्पादकत्वेन पुण्यानि वस्तुतो करती, इसी प्रकार संसारी जीवोंकी विषयोंमें प्रवृत्ति तृष्णाके विना नहीं होती । इस कारण पुण्य तृष्णाका घर है ॥ ७४ ॥ आगे पुण्यको दुःखका बीज प्रगट' करते हैं[पुनः] उसके बाद [ उदीर्णतृष्णाः ] उठी है, तृष्णा जिनके तथा [ तृष्णाभिः दुःखिताः ] अत्यंत अभिलापासे पीड़ित और [ दुःखसंतप्ताः ] दुःखोंसे तप्तायमान [ते] वे देवों पर्यत सब संसारी जीव [ विषयसौख्यानि ] इंद्रियोंके विषयोंसे उत्पन्न सुखोंको [ आमरणं ] मरण पर्यंत [ इच्छन्ति ] चाहते हैं, [च ] और [अनुभवन्ति ] भोगते हैं। भावार्थ-मृग-तृष्णासे जलकी अभिलाषाकी नाई संसारी जीव पुण्यजनित तृष्णाओंमें सुख चाहते हैं। उस तृष्णासे उत्पन्न हुए दुःख संतापको सह नहीं सकते हैं, इसलिये बारंबार विषयोंको मरण पर्यत भोगते हैं। जैसे ' जोंक विकारवाले खूनको तृष्णावश क्रमसे तबतक पीती है, जबतक कि नाशको प्राप्त