________________
. - रायचन्द्रजैनशास्त्रमाला- [अ० १, गा० ७४अथैवमभ्युपगतानां पुण्यानां दुःखबीजहेतुत्वमुद्भावयति
जदि संति हि पुण्णाणि य परिणामसमुब्भवाणि विविहाणि। ' जणयंति विसयतण्हं जीवाणं देवदंताणं ॥ ७४ ॥ . __ यदि सन्ति हि पुण्यानि च परिणामसमुद्भवानि विविधानि ।
जनयन्ति विषयतृष्णां जीवानां देवतान्तानाम् ।। ७४ ॥ यदि नामैव शुभोपयोगपरिणामकृतसमुत्पत्तीन्यनेकप्रकाराणि पुण्यानि विद्यन्त इत्यभ्युपगम्यते, तदा तानि सुधाशनानामप्यवधिं कृत्वा समस्तसंसारिणां विषयतृष्णामवश्यमेव समुत्पादयन्ति । न खलु तृष्णामन्तरेण दुष्टशोणित इव जलूकानां समस्तसंसारिणां विषयेषु प्रवृत्तिरवलोक्यते, अवलोक्यते च सा । ततोऽस्तु पुण्यानां तृष्णायतनत्वमबाधितमेव ॥ ७४॥ खाभाविकं सुखं नास्तीति ॥ ७३ ॥ अथ पुण्यानि जीवस्य विषयतृष्णामुत्पादयन्तीति प्रतिपादयति-जदि संति हि पुण्णाणि य यदि चेन्निश्चयेन पुण्यपापरहितपरमात्मनो विपरीतानि पुण्यानि सन्ति । पुनरपि किंविशिष्टानि । परिणामसमुन्भवाणि निर्विकारखसंवित्तिविलक्षणशुभपरिणामसमुद्भवानि विविहाणि खकीयानन्तभेदेन बहुविधानि । तदा तानि किं कुर्वन्ति । जणयंति विसयतण्हं जनयन्ति । काम् । विषयतृष्णाम् । केषाम् । जीवाणं देवदंताणं दृष्टश्रुतानुभूतभोगाकाङ्क्षारूपनिदानबन्धप्रभृतिनानामनोरथहयरूपविकल्पजालरहितपरमसमाघिसमुत्पन्नसुखामृतरूपां सर्वात्मप्रदेशेषु परमाह्लादोत्पत्तिभूतामेकाकारपरमसमरसीभावरूपां विषयाकाङ्क्षाग्निजनितपरमदाहविनाशिको स्वरूपतृप्तिमलभमानानां देवेन्द्रप्रभृतिबहिर्मुखसंसारिजीवानामिति । इदमत्र तात्पर्यम्-यदि तथाविधा विषयतृष्णा नास्ति तर्हि दुष्टशोणिते जलयूका इव कथं ते विषयेषु प्रवृत्ति कुर्वन्ति । कुर्वन्ति चेत् पुण्यानि तृष्णोत्पादकत्वेन दुःखकारणानि भी तृष्णासे सुख मान रहे हैं ॥ ७३ ॥ आगे शुभोपयोगजनित पुण्यको भी दुःखका कारण प्रगट दिखलाते हैं-[ यदि ] जो [हि] निश्चयसे [विविधानि] नानाप्रकारके [पुण्यानि] पुण्य [परिणामसमुद्भवानि ] शुभोपयोगरूप परिणामोंसे उत्पन्न [सन्ति] हैं। [तदा] तो वे [देवतान्तानां] स्वर्गवासी देवोंतक [जीवानां] सब संसारी जीवोंके [विषयतृष्णां] विषयोंकी अत्यंत अभिलाषाको [जनयन्ति] उत्पन्न करते हैं। भावार्थ-यदि शुभोपयोगसे अनेक तरहके पुण्य उत्पन्न होते हैं, तो भले ही उत्पन्न होवो, कुछ विशेषता नहीं है, क्योंकि वे पुण्य देवताओंसे लेकर सब संसारी जीवोंको तृष्णा उपजाते हैं, और जहाँ तृष्णा है, वहाँ ही दुःख है, क्योंकि तृष्णाके विना इन्द्रियोंके रूपादि विषयों में प्रवृत्ति ही नहीं होती । जैसे जोंक. (जलका जंतुविशेष) तृष्णाके विना विकारयुक्त (खराब ) रुधिरका पान नहीं