________________
-- रायचन्द्रजैनशास्त्रमाला- [अ० १, गा० ६३न किलैवं येषां श्रद्धानमस्ति ते खलु मोक्षसुखसुधापानदूरवर्तिनो मृगतृष्णाम्भोभारमेवा-- भव्याः पश्यन्ति । ये पुनरिदमिदानीमेव वचः प्रतीच्छन्ति ते शिवश्रियो भाजनं समासन्नभव्याः भवन्ति । ये तु पुरा प्रतीच्छन्ति ते तु दूरभव्या इति ॥ ६२॥ अथ परोक्षज्ञानिनामपारमार्थिकमिन्द्रियसुखं विचारयतिमणुआसुरामरिंदा अहिहुदा इंदियेहि सहजेहिं । असहंता तं दुक्खं रमति विसएसु रम्मेसु ॥ ६३॥
मनुजासुरामरेन्द्राः अभिद्रुता इन्द्रियैः सहजैः।
असहमानास्तढुःखं रमन्ते विषयेषु रम्येषु ॥ ६३॥ अमीषां प्राणिनां हि प्रत्यक्षज्ञानाभावात्परोक्षज्ञानमुपसर्पतां तत्सामग्रीभूतेषु स्वरसत एवेन्द्रियेषु मैत्री प्रवर्तते । अथ तेषां तेषु मैत्रीमुपगतानामुदीर्णमहामोहकालानलकवलितानां तप्तायोगोलानामिवात्यन्तमुपात्ततृष्णानां तदुःखवेगमसहमानानां व्याधिसात्म्यतातलवरगृहीततस्करस्य मरणमिव यद्यपीन्द्रियसुखमिष्टं न भवति, तथापि तलवरस्थानीयचारित्रमोहोदयेन मोहितः सन्निरुपरागस्वात्मोत्थसुखमलभमानः सन् सरागसम्यग्दृष्टिग़त्मनिन्दादिपरिणतो हेयरूपेण तदनुभवति । ये पुनर्वीतरागसम्यग्दृष्टयः शुद्धोपयोगिनस्तेषां, मत्स्यानां स्थलगमनमिवाग्निप्रवेश इव वा निर्विकारशुद्धात्मसुखाच्यवनमपि दुःखं प्रतिभाति । तथा चोक्तम्"समसुखशीलितमनसां च्यवनमपि द्वेषमेति किमु कामाः । स्थलमपि दहति झषाणां किमङ्ग पुनरङ्गमङ्गाराः" ॥ ६२ ॥ एवमभेदनयेन केवलज्ञानमेव सुखं भण्यते. इति कथनमुख्यतया गाथाचतुष्टयेन चतुर्थस्थलं गतम् । अथ संसारिणामिन्द्रियज्ञानसाधकमिन्द्रियसुखं विचारयतिमणुआसुरामरिंदा मनुजासुरामरेन्द्राः । कथंभूताः । अहिदुदा इंदियेहिं सहजेहिं अभिधृताः कदर्थिताः दुःखिताः । कैः इन्द्रियैः सहजैः । असहंता तं दुक्खं तदुःखोद्रेकमसहमानाः सन्तः । रमंति विसएसु रम्मेसु रमन्ति विषयेषु रम्याभासेषु इति । अथ सम्यग्दृष्टि जीव संसारके सुखोंको सुखाभास समझते हैं, और इंद्रियसुखोंको रूढ़िसे सुख मानते हैं । परंतु यथार्थमें केवलीके सुखको ही सुख मानते हैं, क्योंकि उनके धातियाकर्मों के नाश होनेसे अनाकुलता प्रगट होती है, और आकुलता रहित सुख ही पारमार्थिक (निश्चयसे ) सुख है । जो अज्ञानी आत्मीक सुखके आस्वाद लेनेवाले नहीं हैं, वे . मृग-तृष्णाकी तरह अजलमें जलबुद्धि करके इंद्रियाधीन सुखको सुख मानते हैं ।। ६२ ।। अब परोक्षज्ञानियोंके इंद्रियाधीन सुख है, परमार्थसुख नहीं है, ऐसा कहते हैं[सहजैः] स्वाभाविक व्याधिरूप [इन्द्रियैः] इंद्रियोंसे [अभिद्रुताः] पीड़ित [मनुजासुरानरेन्द्राः ] मनुष्य, असुर, (पातालवासीदेव) और देवोंके (स्वर्गवासीदेवोंके) इन्द्र अर्थात् स्वामी [तत् दुःखं] उस इन्द्रियजनित दुःखको [ असहमानाः ] सहन करने में असमर्थ होते हुए [ रम्येषु विषयेषु] रमणीक इंद्रियज