________________
५४
- रायचन्द्रजैनशास्त्रमाला - [अ० १, गा०४१अथातीन्द्रियज्ञानस्य तु यद्यदुच्यते तत्तत्संभवतीति संभावयति
अपदेसं सपदेसं मुत्तममुत्तं च पन्जयमजादं । पलयं गयं च जाणदि तं णाणमदिदियं भणियं ॥ ४१॥ __ अप्रदेशं सप्रदेशं मूर्तममूर्तं च पर्ययमजातम् ।
प्रलयं गतं च जानाति तज्ज्ञानमतीन्द्रियं भणितम् ॥ ४१ ॥ इन्द्रियज्ञानं नाम उपदेशान्तःकरणेन्द्रियादीनि विरूपकारणत्वेनोपलब्धिसंकरादीन् __ अन्तरङ्गस्वरूपकारणत्वेनोपादाय प्रवर्तते । प्रवर्तमानं च सप्रदेशमेवाध्यवस्यति स्थूलोपल
म्भकत्वान्नाप्रदेशम् । मूर्तमेवावगच्छति तथाविधविषयनिबन्धनसद्भावान्नामूर्तम् । वर्तमानमेव परिच्छिनत्ति विषयविषयिसन्निपातसद्भावान्न तु वृत्तं वय॑च्च । यत्तु पुनरनावरणमनिन्द्रियं ज्ञानं तस्य समिद्धधूमध्वजस्येवानेकप्रकारतालिङ्गितं दाह्यं दाह्यतानतिक्रमाद्दाह्यमेव यथा तथात्मनः अप्रदेशं मूर्तममूर्तमजातमतिवाहितं च पर्यायजातं ज्ञेयतानतिक्रमा- . त्परिच्छेद्यमेव भवतीति ॥ ४१ ॥
कुर्वन्ति ते सर्वज्ञपदं न लभन्ते इति सूत्राभिप्रायः ॥ ४० ॥ अथातीन्द्रियज्ञानमतीतानागतसूक्ष्मादिपदार्थान् जानातीत्युपदिशति-अपदेसं अप्रदेशं कालाणुपरमाण्वादि सपदेसं शुद्धजीवास्तिकायादिपञ्चास्तिकायखरूपं मुत्तं मूर्त पुद्गलद्रव्यं अमुत्तं च अमूर्तं च शुद्धजीवद्रव्यादि पज्जयमजादं पलयं गयं च पर्यायमजातं भाविनं प्रलयं गतं चातीतमेतत्सर्व पूर्वोक्तं ज्ञेयं वस्तु जाणदि जानाति यद्ज्ञानं कर्तृ तं णाणमदिदियं भणियं तद्ज्ञानमतीन्द्रियं भणितं तेनैव सर्वज्ञो भवति । तत एव च पूर्वगाथोदितमिन्द्रियज्ञानं मानसज्ञानं च त्यक्त्वा ये निर्विकल्पसमाधिरूपखसंवेदनज्ञाने समस्तविभावपरिणामत्यागेन रतिं कुर्वन्ति त एव पर
आगे अतीन्द्रियज्ञान सबको जानता है, ऐसा कहते हैं-[यत् ] जो ज्ञान [अप्रदेशं] प्रदेश रहित कालाणु तथा परमाणुओंको, [सप्रदेशं] प्रदेश सहितको अर्थात् पंचास्तिकायोंको [मूर्त ] पुद्गलोंको [च] और [ अमूर्त ] शुद्ध जीवादिक द्रव्योंको [अजातं पर्यायं] अनागत पर्यायोंको [च] और [प्रलयं गतं] अतीत पर्यायोंको [जानाति ] जानता है [ तद्ज्ञानं ] उस ज्ञानको [अतीन्द्रियं] अतीन्द्रिय [भणितं] कहा है। भावार्थ-अतीन्द्रियज्ञान सवको जानता .. है, इसलिये अतीन्द्रियज्ञानीको ही सर्वज्ञ पद है। जो इन्द्रियज्ञानसे सर्वज्ञ मानते हैं, वे प्रत्यक्ष मिथ्या बोलते हैं। क्योंकि जो पदार्थ वर्तमान होवे, मूर्तीक स्थूल प्रदेश सहित होवे, तथा निकट होवे, उसीको इन्द्रियज्ञान क्रमसे कुछेक जानसकता है। अप्रदेशी, अमूर्तीक तथा अतीत अनागतकाल संबंधी जो पदार्थ हैं, उनको नहीं जान सकता । ऐसे