________________
. ४२.] -
-प्रवचनसारः
___ ५५
अथ ज्ञेयार्थपरिणमनलक्षणा क्रिया ज्ञानान्न भवतीति श्रद्दधातिपरिणमदि णेयमझु णादा जादि व खाइगं तस्स । णाणं ति तं जिणिंदा खवयंतं कम्ममेवुत्ता ॥४२॥
परिणमति ज्ञेयमर्थ ज्ञाता यदि नैव क्षायिकं तस्य ।
ज्ञानमिति तं जिनेन्द्राः क्षपयन्तं कमैवोक्तवन्तः ॥ ४२ ॥ परिच्छेत्ता हि यत्परिच्छेद्यमर्थ परिणमति तन्न तस्य सकलकर्मकक्षक्षयप्रवृत्तस्वाभाविकपरिच्छेदनिदानमथवा ज्ञानमेव नास्ति तस्य । यतः प्रत्यर्थपरिणतिद्वारेण मृगतृष्णाम्भोभारसंभावनाकरणमानसः सुदुःसहं कर्मभारमेवोपभुञ्जानः स जिनेन्द्रैरुगीतः ॥ ४२ ॥ माह्लादैकलक्षणसुखखभावं सर्वज्ञपदं लभन्ते इत्यभिप्रायः ॥ ४१ ॥ एवमतीतानागतपर्याया वर्तमानज्ञाने प्रत्यक्षा न भवन्तीति बौद्धमतनिराकरणमुख्यत्वेन गाथात्रयं, तदनन्तरमिन्द्रियज्ञानेन सर्वज्ञो न भवत्यतीन्द्रियज्ञानेन भवतीति नैयायिकमतानुसारिशिष्यसंबोधनार्थ च गाथाद्वयमिति समुदायेन पञ्चमस्थले गाथापञ्चकं गतम् ॥ अथ रागद्वेषमोहाः बन्धकारणं, न च ज्ञानमित्यादिकथनरूपेण गाथापञ्चकपर्यन्तं व्याख्यानं करोति । तद्यथा-यस्येष्टानिष्टविकल्परूपेण कर्मबन्धकारणभूतेन ज्ञेयविषये परिणमनमस्ति तस्य क्षायिकज्ञानं नास्तीत्यावेदयति-परिणमदि णेयमहूँ णादा जदि नीलमिदं पीतमिदमित्यादिविकल्परूपेण यदि ज्ञेयार्थ परिणमति ज्ञातात्मा णेव खाइगं तस्स णाणं ति तस्यात्मनः क्षायिकज्ञानं नैवास्ति । अथवा ज्ञानमेव नास्ति । कस्मान्नास्ति । तं जिणिंदा खवयंतं कम्ममेवुत्ता तं पुरुपं कर्मतापन्नं जिनेन्द्राः कर्तारः उक्तवन्तः । किं कुर्वन्तम् । क्षपयन्तमनुभवन्तम् । किमेव । कर्मैव । निर्विकारसहजानन्दैकसुखस्वभावानुभवनशून्यः सन्नुदयागतं खकीयकर्मैव स अनुभवन्नास्ते न च ज्ञानमित्यर्थः । अथवा द्वितीयव्याख्यानम्-यदि ज्ञाता प्रत्यर्थ परिणम्य पश्चादर्थ जानाति तदा अर्थानामानन्त्यात्सर्वपदार्थपरिज्ञानं नास्ति । अथवा तृतीयव्याख्यानम्-बहिरङ्गज्ञेयपदार्थान् यदा छद्मस्थावस्थायां चिन्तयति तदा रागादिविकल्परहितं खसंवेदनज्ञानं नास्ति, तदभावे क्षायिकज्ञानमेव ज्ञानसे सर्वज्ञ पदवी कहाँसे मिल सकती है ? कहींसे भी नहीं ॥४१॥ आगे अतीन्द्रियज्ञानमें इष्ट अनिष्ट पदार्थों में सविकल्परूप परिणमन क्रिया नहीं है, ऐसा दिखलाते हैं-[यदि ] जो [ज्ञाता] जाननेवाला आत्मा [ ज्ञेयमर्थ ] ज्ञेयपदार्थको [ परिणमति] संकल्प विकल्परूप होकर परिणमन करता है, [तदा] तो [तस्य] उस आत्माके [क्षायिकं ज्ञानं ] कर्मके क्षयसे उत्पन्न हुआ अतीन्द्रियज्ञान [नैव] निश्चयसे नहीं है, [इति हेतोः'] इसलिये [जिनेन्द्राः ] सर्वज्ञदेव [तं] उसविकल्पी जीवको [कर्म क्षपयन्तं] कर्मका अनुभव करनेवाला [एव] ही [उक्तवन्तः ] कहते हैं। भावार्थ-जबतक आत्मा सविकल्परूप पदार्थोको जानता है, तबतक उसके .क्षायकज्ञान नहीं होता, क्योंकि जो जीव सविकल्पी है, वह प्रत्येक