________________
- रायचन्द्रजैनशास्त्रमाला- [अ० १, गा० ३७तात्कालिका इव सर्वे सदसद्भूता हि पर्यायास्तासाम् । .
वर्तन्ते ते ज्ञाने विशेषतो द्रव्यजातीनाम् ॥ ३७॥ .. सर्वासामेव हि द्रव्यजातीनां त्रिसमयावच्छिन्नात्मलाभभूमिकत्वेन क्रमप्रतपत्स्वरूपसंपदः सद्भूतासद्भूततामायान्तो ये यावन्तः पर्यायास्ते तावन्तस्तात्कालिका इवात्यन्तसंकरेणाप्यवधारितविशेषलक्षणा एकक्षण एवावबोधसौधस्थितिमवतरन्ति । न खल्वेतदयुक्तं दृष्टाविरोधात् । दृश्यते हि छद्मस्थस्यापि वर्तमानमिव व्यतीतमनागतं वा वस्तु चिन्तयतः संविदालम्बितस्तदाकारः । किंच चित्रपटीस्थानीयत्वात् संविदः । यथा हि चित्रपट्यामतिवाहितानामनुपस्थितानां वर्तमानानां च वस्तूनामालेख्याकाराः साक्षादेकक्षण एवावभासन्ते, तथा संविद्भित्तावपि । किंच सर्वज्ञेयाकाराणां तादात्विकाविरोधात् । यथा हिं प्रध्वस्तानामनुदितानामालेख्याकारा वर्तमाना एव, तथातीतानामनागतानां च पर्यायाणां ज्ञेयाकारा वर्तमाना एव भवन्ति ॥ ३७॥ प्रसिद्धानां शुद्धजीवद्रव्यजातीनामिति । व्यवहितसंबन्धः कस्मात् । विसेसदो खकीयस्त्रकीयप्रदेशकालाकारविशेषैः संकरव्यतिकरपरिहारेणेत्यर्थः । 'किंच-यथा छद्मस्थपुरुषस्यातीताना. गतपर्याया मनसि चिन्तयतः प्रतिस्फुरन्ति, यथा च चित्रभित्तौ बाहुबलिभरतादिव्यतिक्रान्तरूपाणि श्रेणिकतीर्थकरादिभाविरूपाणि च वर्तमानानीव प्रत्यक्षेण दृश्यन्ते तथा चित्रभित्तिस्थानीयकेवलज्ञाने भूतभाविनश्च पर्याया युगपत्प्रत्यक्षेण दृश्यन्ते, नास्ति विरोधः । यथायं केवली भगवान् परद्रव्यपर्यायान् परिच्छित्तिमात्रेण जानाति न च तन्मयत्वेन, निश्चयेन तु केवलज्ञानादिगुणाधारभूतं खकीयसिद्धपर्यायमेव खसंवित्त्याकारण तन्मयो भूत्वा परिच्छिनत्ति जानाति, तथासन्नभव्यजीवेनापि निजशुद्धात्मसम्यक्श्रद्धानज्ञानानुष्ठानरूपनिश्चयरत्नत्रयपर्याय एव सर्वताजीवादिक द्रव्य जातियोंके [ ते सर्वे] वे समस्त [सदसद्भूताः] विद्यमान तथा अविद्यमान [पयार्याः] पर्याय [हि ] निश्चयसे [ ज्ञाने] ज्ञानमें [विशेषतः] भिन्न भिन्न भेद लिये [तात्कालिका इव] वर्तमानकाल संबंधी पर्यायोंकी तरह [वर्तन्ते ] प्रवर्तते हैं। भावार्थ:-जैसे किसी चित्रकारने (चितेरेने) चित्रपटमें बाहुबली-भरतादि अतीतपुरुषोंका चित्र बनाया, और भावीकाल सम्बन्धी श्रेणिकादि तीर्थकरका चित्र बनाया, सो वे चित्र उस चित्रपट में वर्तमानकालमें देखे जाते हैं । उसी प्रकार ज्ञान चित्रपटमें जो पर्याय होचुके, तथा जो आगे होनेवाले हैं, उनका वर्तमान प्रतिविम्ब भासता है । यहाँपर कोई प्रश्न करे, कि "वर्तमानकालके ज्ञेयोंके आकार ज्ञानमें प्रतिविम्बित हो सकते हैं, परंतु जो हो चुके हैं, तथा जो होनेवाले हैं, उनका प्रतिभास होना 'असंभव मालूम होता है।" उसका समाधान यह है कि जव छद्मस्थ ज्ञानी. (अल्पज्ञानी) तपस्वी भी योगवलसे वा तपस्याके प्रभावसे ज्ञानमें कुछ निर्मलता होनेसे अतीत अनागत. वस्तुका विचार करलेते हैं, तब उनका ज्ञान अतीत • अनागत वस्तुके