________________
३७.]
प्रवचनसारः
स्थितत्वान्न तत्र विप्रतिषेधस्यावतारः । यथा हि प्रकाशकस्य प्रदीपस्य परं प्रकाश्यतामापन्नं प्रकाशयतः स्वस्मिन् प्रकाशेन प्रकाशान्तरं मृग्यं, स्वयमेव प्रकाशनक्रियायाः समुपलम्भात् । तथा परिच्छेदकस्यात्मनः परं परिच्छेद्यतामापन्नं परिच्छिन्दतः स्वस्मिन् परिच्छेद्येन परिच्छेदकान्तरं मृग्यं स्वयमेव परिच्छेदनक्रियायाः समुपलम्भात् । ननु कुत आत्मनो द्रव्यज्ञानरूपत्वं द्रव्याणां च आत्मज्ञेयरूपत्वम् च परिणामसंबन्धत्वात्, यतः खलु आत्मद्रव्याणि च परिणामैः सह संबध्यन्ते । तत आत्मनो द्रव्यालम्बनज्ञानेन द्रव्याणां तु ज्ञानमालम्ब्य ज्ञेयाकारेण परिणतिरबाधिता प्रथयति ॥ ३६ ॥
"
अथातिवाहितानागतानामपि द्रव्यपर्यायाणां तादात्विकवत् पृथक्त्वेन ज्ञाने वृत्ति
मुद्योतयति
तक्कालिगेव सधे सदसन्भूदा हि पज्जया तासिं । वहते ते णाणे विसेसदो दवजादीणं ॥ ३७ ॥
४९
भूतम् । परिणामसंबद्धं कथंचित्परिणामीत्यर्थः । नैयायिकमतानुसारी कश्चिदाह—ज्ञानं ज्ञानान्तरवेद्यं प्रमेयत्वात् घटादिवत् । परिहारमाह - प्रदीपेन व्यभिचारः, प्रदीपस्तावत्प्रमेयः परिच्छेद्यो ज्ञेयो भवति न च प्रदीपान्तरेण प्रकाश्यते, तथा ज्ञानमपि स्वयमेवात्मानं प्रका - शयति न च ज्ञानान्तरेण प्रकाश्यते । यदि पुनर्ज्ञानान्तरेण प्रकाश्यते तर्हि गगनावलम्बिनी महती दुर्निवारानवस्था प्राप्नोतीति सूत्रार्थः ॥ ३६ ॥ एवं निश्चयश्रुतके वलिव्यवहारश्रुतकेवलिकथनम्ख्यत्वेन भिन्नज्ञाननिराकरणेन ज्ञानज्ञेयखरूपकथनेन च चतुर्थस्थले गाथाचतुष्टयं गतम् । अथातीतानागतपर्याया वर्तमानज्ञाने सांप्रता इव दृश्यन्त इति निरूपयति-- सबै सदसभूदा हि पज्जया सर्वे सद्भूता असद्भूता अपि पर्यायाः ये हि स्फुटं वते ते पूर्वोक्ताः पर्याया वर्तन्ते प्रतिभासन्ते प्रतिस्फुरन्ति । क्व । णाणे केवलज्ञाने । कथंभूता इव । तक्कालिगेव तात्कालिका इव वर्तमाना इव । कासां सम्बन्धिनः । तासि दवजादीणं तासां कि पहले कहे हुए दीपकके दृष्टांतसे आत्मामें भी स्वपरप्रकाशक शक्ति है, इस कारण आत्मा अपनेको तथा परको जाननेवाला अवश्य हो सकता है । इससे असंभव दोप कभी भी नहीं लग सकता । अब यहाँपर फिर कोई प्रश्न करे, कि आत्माको द्रव्योंका ज्ञान किससे है ? और द्रव्योंको किस रीति से प्राप्त होता है ? तो उससे कहना चाहिये, कि ज्ञान, ज्ञेयरूप पदार्थ, परिणामोंसे बँध रहे हैं । आत्माके ज्ञानपरिणति ज्ञेय पदार्थकी सहायता से है । यदि ज्ञेय न होवे, तो किसको जाने ? और ज्ञेय पदार्थ ज्ञानका अवलम्वन करके ज्ञेय अवस्थाको धारण करते हैं । जो ज्ञान न होवे, तो इन्हें कौन जाने ? इसलिये पदार्थों का ज्ञेयज्ञायक सम्बन्ध हमेशासे है, मिट नहीं सकता ॥ ३६ ॥ आगे कहते हैं, कि अतीत काल में हुए द्रव्योंके पर्याय और अनागत ( भविष्यत्) कालमें होनेवाले पर्याय, ज्ञानमें वर्तमान सरीखे प्रतिभासते ( मालूम पड़ते ) हैं - [ तासां द्रव्यजातीनां ] 'उन प्रसिद्ध
प्र० ७