________________
अध्यात्मतत्त्वालोकः।
प्रथम
. रोगैः प्रपूर्ण भविनां शरीर- . .
__ मन्तःस्थितेष्वेषु जनो मदान्धः । यदा बहिस्ते प्रकटीभवन्ति . .
दीनाननः पश्यति दुःखमेव ।।
'' शरीरमोहं परिहाय चेतः- . . - शुद्ध्यै प्रयत्नः सततं विधेयः । . . न देशुद्धौ पुरुषार्थसिद्धिश्चित्तै तु शुद्ध पुरुषार्थसिद्धिः ॥
६३ अन्यत्र मोक्षान्नहि वास्तव शं
' देहश्च मोक्षश्च मिथो विरुद्धौ । मुमुक्षवस्तेन न देहमोह
कुर्वन्ति, कुर्वन्ति बुमुक्षवस्तु ।।
.. अस्मादसाराद् वपुषो यथार्थ
सारं समाकांलसि यद्यवाप्तुम् । परोपकारेण महाव्रतेन
स्वस्योपकारं मतिमन् ! विधेहि ॥