________________
[प्रथम--
अध्यात्मतत्त्वालोकः।
१७ शुद्धात्मतत्त्वं प्रविघाय लक्ष्य
ममूढदृष्ट्या क्रियते यदेव । अध्यात्ममाहुर्मुनिपुङ्गवास्तद्,
चिह्न प्रबुद्धात्मन एतदस्ति ॥
कल्याणभूतं किमपीह तत्त्व
मनो मम प्रोत्सहते प्रवक्तुम् । यदीच्छथाध्यात्मनगाधिरोह
निबोधतेदं हृदयेन सुज्ञाः !॥
पुण्यप्रभावान्महतो विशिष्टः
सम्पद्यते मानुषजन्मयोगः। सार्थक्यमेन च नयन्ति सन्तः सन्ज्ञानतः स्व चरितं विशोध्य ॥
२० प्राप्तान्यनन्तानि वपूष्यनेन
जीवेन मोहावरणावृतेन । मोहस्य सत्त्वे खलु देहयोगो
देहे च लब्धे पुनरेव दुःखम् ॥