________________
अध्यात्मतत्त्वालोकः ।
[प्रथम
अध्यात्ममानौ प्रसरत्प्रतापे
मनोनग• परिभासमाने । कुतस्तमः ! शुष्यति भोग-पङ्कः,
कषायचौरः प्रपलाय्यते च ॥
· आनन्दपूर्णा च सुधां समाधि
वितन्वतेऽध्यात्मसुधाकराय । 'स्पृहा यदीये हृदि नाविरासीत्
पशुनरूपेण स मोषजन्मा ॥
अध्यात्मशस्त्रं पटु यो दधाति
भवेद् भयं तस्य कुतस्त्रिलोक्याम् । आत्मस्वतन्त्री विमलात्मकोऽनु
भवन् स शान्ति विहरत्यनन्ताम् ॥
विधाय पापान्यतिमीषणानि
येऽनन्तदुःखातिथयो बभूवुः । एतादृशानप्युददीधरद् यत्
कि वर्ण्यतेऽध्यात्मरसायनं तत् ॥