________________
२६६
अध्यात्मतत्त्वलोक. |
२५
बुध्येत माम्येन परो न गेषाद् वैरेण वैर समुपैति वृद्धिम् ।
बलान्युप प्रेम जगत्यशेषे परप्रबोधेऽपि च सूपयोगि ॥ २६
आलोचनं दूषितभाषितस्याऽप्यरक्त-विद्विष्टतया क्रियेत ।
समस्वभावा हि महानुमावा'
सर्वत्र किं नाम मतान्तरेषु ! |
२७
सम्प्रदायोऽपि कषाययोगात्
स्वजीवनं दुःस्थितमातनोति ।
असम्प्रदायोऽपि कषायनाशाद्
आत्मानमुचैः पद आदधाति ॥ २८
भवन्ति शूद्रा अपि वृत्तभागो
द्विना अपि स्युः कुचरित्रशीलाः ।
[ अष्टम
न कोऽपि मान्यः खलु जातिमात्राद् गुणा हि पूज्या गुणिनां भवन्ति ॥