________________
२६.
अध्यात्मतत्त्वालोकः ।
[अष्टम
शक्यो भवेचेन्न परोपकारः
परापकारे तु कदापि न स्यात् । धर्मक्रियायां यदि न प्रवृत्तिनधिर्मकर्माचरणं तु कुर्यात् ।।
१४ प्रामाणिकत्वं व्यवहारशुद्धि
रौचित्यतः संयमन च यस्य । ' स जीवनं स्वं सुखितं करोति
मोक्षाय कल्पेत च विश्वबन्धुः ॥
१५
प्रारम्भ आध्यात्मिकजीवनस्य
संजायते न्यायपरायणत्वात् । मार्गानुसारित्वगुणेषु विजे
रादौ समस्थापि गुणः स एव ।।
स्वर्गोऽपि दुःखास्पदमामयाविनो
निरामयः पर्णगृहेऽपि खेलति । आरोग्यमुच्चैः पुरुषार्थसाधनं - तद्रक्षणं संयमतः सुसम्भवम् ।