________________
२५६
अध्यात्मतत्त्वालोकः ।
[अष्टम
न साधुवैराग्यविवर्जितत्वंs
पवर्गमार्गे भवति प्रवेशः । एवं च मानुष्यमनर्थकं स्याद्
विचारमभ्यस्यतु तेन सम्यक् ॥
एकस्वभावा नहि सर्वलोका
विचित्रकर्मानुगयोगमानः। आयुष्य-धी-शक्तिविचित्रताया___ मर्हन्ति सर्वे नहि मार्गमेकम् ॥
समप्रसामग्र्यनुकूलताया
न सम्भव. सर्वशरीरभानाम् । भवन्ति सर्वे नहि तेन योग्याः
सामान्यता योगपथाधिरोहे ॥
कुयाद् यथाशक्ति तथापि नूनं
कर्तव्यमात्मान्ननिमादधानम् । शनैः शनैः सञ्चरणेऽपि मागे
स्थानं चिरेणाप्युपलभ्यते हि ॥