________________
[पष्ठ
२३२ अध्यात्मतत्त्वालोकः ।
२१ आश्रित्य लोकोत्तरपूरुषाणा
माज्ञामवाधां परिचिन्तनं यत् । वस्तुस्वरूपस्य यथार्थरीत्या
ध्यानं तदाज्ञाभिधमामनन्ति ॥
२२ अध्यात्ममार्गाश्रयणं विनाऽय
मात्मा भवेऽभ्राम्यदनन्तकालम् । रागादिदोषकवशीभवन्तो
निर्यान्ति नापायमहाटवीतः ॥
मोहान्धकारावृतमानसेन
मया न कि किं कलुषं व्यधायि ।। श्वभ्रेषु तिर्यक्षु नरेषु चोग
दुःखं न कि कि प्रतिपद्यते स्म । ।
२४ संसारदुःखाम्बुनिधौ गभीरे
कालो गतोऽयं ब्रुडतोऽखिलो मे। कस्याऽपराधोऽत्र मया विचार्यः
प्रमाद एतस्य कुचेतसो मे ! ॥