________________
२१८
अध्यात्मतत्त्वालोकः ।
[पञ्चम
एताशीमिः खलु भावनाभिः
सुवासितान्तःकरणो मुमुक्षुः । ममत्वलुण्टाकविलुण्ट्यमानां
साम्यश्रियं रक्षितुमीश्वरः स्यात् ॥
ध्यानं समालम्ब्य समत्वमाश्रयेत्
साम्यं विना तत्र कृते विडम्बना । ध्यानं समायाति यथा यथोन्नति
तथा तथाऽऽत्मावरणं विभिद्यते ॥
ध्यानं समत्वेन विना 'भवेन्न
साम्यं विना ध्यानमपि स्फुरेन्न । परसरापेक्षणतो द्वयं तत्
प्रपद्यते स्थैर्यबलप्रकर्षम् ॥
अतिदारुणपापभारिणोऽ
प्यमुना ध्वस्तसमस्तकर्मकाः । परमात्मदशां प्रपेदिरे
परमध्यात्ममिद विदुर्बुधाः ॥