________________
२०२
अध्यात्मतत्त्वालोकः ।
[पञ्चम
मनोविशोधन विनैव योग
धराधरारोहणमीहते यः। प्रहस्यते पङ्गुरिव क्रमाभ्यां
देशाटनं कर्तुमनाः स मूढः ॥
रुद्धानि कर्माणि मनोनिरोधे
मनःप्रचार प्रसरन्ति तानि । असंयमः सयम एव तस्य
भवस्य मोक्षस्य समस्ति मूलम् ॥
११ जगत्त्रयीविभ्रमणप्रवीणो
मनःप्लवङ्गो विनियन्त्रणीयः। केनापि यत्नेन विचारवद्भि
रभीप्सितं शान्ति-सुखं परं चेत् ॥
.
१२ सर्वागमानां परमार्थभूत
मेकं तदन्तःकरणस्य शुद्धिः । कर्मक्षयप्रत्यलमेकमुक्तं
ध्यानं तदन्तःपरिशुद्धिमूलम् ॥