________________
अध्यात्मतत्त्वालोकः ।
चतुर्थ
२९
मनोवचःकर्मसु निर्मलेषु
क्षमोर्मयो यस्य सदा वहन्ति । धन्यः कृतार्थः स कृती महात्मा
कलावपि प्रेक्ष्यमुखारविन्दः ॥
क्राधान्धलीभूव यदेव कार्य
करोति सद्यो विपरीतरूपम् । तदेव कोपोपशमे पाय , दुःखाय च स्याद् धिगहो। अविधा ! |
३१
आक्रोशने वा सति ताडने वा
योगप्रवाहे स्थितवानृषिस्तु । ध्यायेन मे किश्वन नाशमेति
सञ्चित्स्वरूपं मम निश्चलं यत् ॥
यथार्थरूपः प्रकटो यदा स्याद् . - देहात्मनोभिन्नतया प्रकाशः । छिन्ने च मिन्ने च तदा शरीरे
नात्मा भवेत् स्वात्मरतो विकारी ॥