________________
अध्यात्मतत्त्वालोकः।
[चतुर्थ
अवेक्षमाणा अपि जन्म-मृत्यु
जराऽऽमयोपद्रवदुःखपूर्णम् । संसारमल्पेतरमोहदोषात्
समुद्विनन्ते न ततोऽङ्गभानः ॥
ई
सर्वस्य दुःखस्य निदानमात्मा:- । ।
ज्ञानं बुधा एकमुदाहरन्ति । तत् तद्भवं तद्विलयाद् व्यपेयात्
तपोभिरुपैरपि नान्यथा तु ॥
संसार आत्मैव नितः कषाये- .
न्द्रियैः स एवापरथा च मोक्षः । क्रोधादयस्तत्र कषायसंज्ञा
श्चत्वार उक्ता भववृक्षमेघाः ॥
यो वैरहेतुः परितापकारणं
शमार्गला दुर्गतिवत्तैनी पुनः । उत्पधमानः प्रथमं स्वमाश्रयं
दहेद् दहेद् वन्हिरिवापर न वा ॥
...