________________
तृतीय
१४८ अध्यात्मतत्त्वालोकः ।
१२९ ' या धारणाया विषये च प्रत्ययै
कतानताऽन्तःकरणस्य तन्मतम् । ध्यानं, समाधिः पुनरेतदेव हि
स्वरूपमात्रप्रतिभासनं मतः ॥
असङ्गवृत्त्याख्यकसत्प्रवृत्ति
पदं प्रभायां लभते महात्मा । प्रशान्तवाहित्वमपीदमेवे
दमेव नामान्तरतोऽन्य आहुः ॥
दृष्टिः परा नाम समाधिनिष्ठाऽ
ष्टमी तदासङ्गविवर्जिता च । सात्मीकृताऽस्यां भवति प्रवृत्तिबोधः पुनश्चन्द्रिकया समानः ॥
१३२ अध्यात्मकोटि परमामिहाऽऽगतः
श्रीधर्मसन्यासबलेन केवलम् । लन्थ्वोत्तमं योगमयोगमन्ततः
. प्राप्यापवर्ग लभतेऽस्तकर्मकः ॥