________________
१४२
अध्यात्मतत्त्वालोकः ।
[तृतीय
शान्तो विनीतश्च मृदुः प्रकृत्या
__ भद्रस्तथा चारुचरित्रशाली। मिथ्यागप्युच्यत एव सूत्रे
निर्वाणमाक् धर्मितया प्रशस्तः ॥
अर्थे 'परावर्तन'नामकाले
वशिष्ट उत्कृष्टतया भवन्ति । सम्यग्दृशो मोक्षपदस्य लाम
विलम्ब उत्कृष्टतयाऽयमर्थात् ।।
सम्यग्दृशः सन्ति चतस्र एताः
स्थिरा च कान्ता च प्रमा परा च । प्रत्याहृतिस्तत्र भवेत् स्थिरायां
रत्नप्रभा पटु दर्शनं च ॥
समाहृतिर्याऽर्थत इन्द्रियाणां
प्रत्याहृतिः सा परिवेदितव्या । आद्यामिमां सशमागतस्य
सूक्ष्माववोषो भ्रमवर्जितश्च ॥