________________
१३२
अध्यात्मतत्त्वालोकः ।
९७
यूनः सकान्तस्य 'विदग्धबुद्धे. यथा सुगेयश्रवणेऽभिलाषः । इमां दृशं प्राप्तवतस्तथा स्यात् तत्त्वावबोधश्रवणाभिलाषः ॥
९८
असत्यमुष्मिन् श्रुतमप्यपार्थ:-- मिवोषरायां भुवि बीजवापः ।
सति त्वमुष्मिन् परसाधनानि कर्मक्षयायाऽसुलभानि न स्युः ॥
९९
तुर्यान्विता प्राणयमेन दीप्रा
दीप्रात्मभावस्य बलेन दृष्टिः । '
अस्यां च तत्त्वश्रवणप्रवृत्तिदीपप्रभासन्निभदर्शनायाम् ॥ .
१००
यः श्वासप्रश्वासगतिप्ररोधः
• स योगिभिः प्राणयमो बभाषे ।
स रेचकः पूरक कुम्भकौ च
[ तृतीय
श्वासो बहिर्वृत्तिरिहाऽऽदिमः स्यात् ॥