________________
अध्यात्मतत्त्वालोकः ।
[तृतीय
' मृषोद्यते यत् फलमाकलय्य
फलस्य तस्यान्तनागसश्च । अस्त्यन्तरं कीडगवेक्षणीय
युक्ता हि कार्येषु तुलासमा धीः ।
धनाजेनं न्यायपथेन सम्यग
उधोगतोऽशक्यतया क आह !। । आरम्भतो धीरतया तु सह्या
आपद्यमानाः प्रतिकूलयोगाः॥
शाम्यन्ति सर्वाण्यपि दूषणानि
यथार्थवादे प्रविजृम्भमाणे। मृगेश्वरे क्रीडति वारणानां
सम्भावनीयो हि कुतः प्रचारः॥
२४ प्रयातु लक्ष्मीः स्वजना अराती
भवन्त्वकीर्तिः प्रसरीसरीतु। सद्योऽथवा मृत्युरुपस्थितोऽस्तु
नासत्यमार्ग तु मजेत वीरः ॥